________________
प्रशमरतिप्रकरणम्
तद्भक्तिबलार्पितया मयाऽप्यविमलाल्पया स्वमतिशक्त्या । प्रशमेष्टतयाऽनुसृता विरागमार्गैकपदिकेयम् ॥७॥
परिशाटीप्रायाः कृताः । कृपणकेण रण इव संहृत्य सम्पिण्ड्य ॥६॥
(७) टीका-किं कृतमित्याह - तद्भक्तिबलेत्यादि । यैस्ताः श्रुतवाक्पुलाकिकाःत्यक्ता' विसृता मुक्तास्तेषु भक्ति: प्रीतिः सेवा । तासु वा श्रुतवाक्पुलाकिकासु भक्तिस्तावन्मात्रेणैव परितोषात्तद्भक्तेर्बलं सामर्थ्यम् । तेन तद्भक्तिबलेनार्पिता उपनीता स्वमतिशक्तिः विशेष्यात्तद्भक्तिरेव बलात्प्रोत्साहयति मम स्वमतिशक्तिं जनयति । तया तद्भक्तिबलार्पितया स्वमतिशक्त्या । मयापि तदुक्त्यनुसारेण 'प्रथिता । पुनस्तस्या एव विशेषणं अविमलाल्पयेति । ज्ञानावरणकर्मकलुषितत्वादविमला अल्पा स्तोका । यतश्चतुर्दशपूर्वरा अपि षट्स्थानपतिता भवन्ति किं पुनरस्मद्विधाः । कः पुनरयं नियोगोऽवश्यंतया प्रकरणं कर्तव्यमित्याह-प्रशमेष्टतया । इष्टस्य भाव इष्टता, प्रशमस्येष्टता प्रशमेष्टता प्रशमवल्लभता, तया हेतुभूतया विरागमार्ग एव एकं पदं यस्या, विरागपथस्थानमाश्रयो यस्याः सेयं विरागमार्गैकपदिका, कृतेति ॥७॥
न सर्वाः, पारम्पर्यात्-गुरुपरम्परया, उच्छेषिका-उद्धृतशेषाः, स्तोकीभूता इत्यर्थः । ततस्तां कृपणकेनकुत्सितरङ्केणेव, मयेत्युत्तरेण सम्बन्धः । संहृत्य - मीलत्वेति ॥६॥
(७) (वि० ) ततः किं ' कृतमित्याह - 'तद्भक्ति' इत्यादि । तद्भक्तिबलार्पितया - श्रुतवाक्पुलाकिका-बहुमानसामर्थ्यढौकितया । मयेति कर्तृभूतात्मनिर्देशो । अपिशब्दोऽस् ऽसूयाख्यापकः । किल मयापि अनुसृता विरागमार्गैकपदिकेति । अविमला - कलुषा, सा चासावल्पा च स्तोका सा तथा तया । कया एवंविधया ? - अत आह- स्वमतिशक्त्या कारणभूतया, निजबुद्धिसामर्थ्येन, प्रशमेष्टतयाउपशमवल्लभतया हेतुभूतया, अनुसृता तद्भक्त्यनुसारेण विहिता, कैवंविधेत्याह-विरागमार्गैकपदिकाविरागमार्गस्यैकोत्पादिका, जनिकेत्यर्थः । इयं प्रशमरतिरित्यर्थः । इति आर्यात्रयार्थः५ ॥७॥
आगमवचन-प्राधान्यावयवभूताः कृपणेनेव सपिण्ड्य उच्छेषिकाः परिशाटिताः ॥६॥
(७) (अव०)- श्रुतवाक्पुलाकिकाबहुमानसामर्थ्यढौकितया कलुषतुच्छया प्रशमस्पृहकत्वेनानुसृता कृता विरागमार्गोत्पादिका, विरागपथः पदं स्थानं यस्या वा ॥७॥