________________
प्रशमरतिप्रकरणम्
बहुभिर्जिनवचनार्णवपारगतैः कविवृषैर्महामतिभिः । पूर्वमनेकाः प्रथिताः प्रशमजननशास्त्रपद्धतयः ॥५॥ ताभ्यो विसृताः श्रुतवाक्पुलाकिकाः प्रवचनाश्रिताः काश्चित् । पारम्पर्यादुच्छेषिकाः कृपणकेन संहृत्य ॥६॥
(५) टीका-तामेवोञ्छकवृत्तिमात्मनो दर्शयति कारिकाद्वयेन-बहुभिर्जिनवचनार्ण वेत्यादि । ताभ्यो विसृता इत्यादि । जिनवचनं महार्णव इव पारगमनाशक्यत्वादल्पमेधाभिः । महामतिभिस्तु बुद्धिविभवप्राप्तैः सुगमपार इति तदर्शयति । जिनवचनार्णवपारगतैर्बहुभिर्महामतिभिश्चतुर्दशपूर्वविद्भिः शास्त्रप्रतिबद्धकाव्यकरणनिपुणैः सत्कविभिः शब्दार्थदोषरहितकाव्यकारिभिः कविवृषैः कविप्रधानैः मत्तः पूर्वं प्रथमतरमेवानेका बढ्यः प्रशमजननशास्त्रपद्धतयः प्रथिताः प्रकाशिताः । प्रशमो वैराग्यं स जन्यते येन शास्त्रेण तत्प्रशमजननशास्त्रं तस्य पद्धतयो रचनाः वैराग्यवीथय इत्यर्थः । तैर्महामतिभिर्या विरचिताः शास्त्रपद्धतयः ॥५॥
(६) टीका-'श्रुतग्रन्थानुसारिण्यो वाचः प्रधानार्थप्रतिबद्धा या विपुष' इव पुलाकिकाः पलञ्जीभूताः निःसारा याः शटिताः प्रधानार्थाः । प्रवचनानुसारिण्यो द्वादशाङ्गार्थानुगताः तत्रापि काश्चिदेव न सर्वाः सम्भाविताः। पारम्पर्यादुच्छेषिका इति गणधरशिष्यैश्चतुर्दशादिपूर्वधरैरेकादशाङ्गविद्भिश्च प्रवचनाभ्यवहारं कुर्वद्भिरुच्छेषिकाः
वर्तत इत्याद्वियार्थः ॥४॥
(५) (वि०) तामेवोञ्छकवृत्तिमार्यात्रयेणाऽऽह-बहुभिरिति । बहुभिः-अनेकैजिनवचनार्णवपारगतैः-सर्वज्ञागमसमुद्रपर्यन्तप्राप्तैः कविवृषैः-विशिष्टकविभिः महामतिभिःविपुलबुद्धिभिः, पूर्व-प्राक्तनकाले, अनेका-बढ्यः, याः प्रथिता-अभिहिताः, कास्ता ? इत्याहप्रशमजननशास्त्रपद्धतयः-उपशमोत्पादकग्रन्थपङ्क्तय इति ॥५॥ ।
(६) (वि०) किञ्चात इत्याह-ताभ्य इति । तद्भवतीति । ताभ्यः-पूर्वोक्तशास्त्रपद्धतिभ्यो विसृता-गलिताः । का इत्याह-ताभ्यो विसृताः श्रुतवाक्पुलाकिका-आगमवचनधान्यावयवभूताः, ताश्च मिथ्यादृष्ट्यागमसम्बन्धिन्योऽपि भवन्तीत्याह-प्रवचनाश्रिताः-जिनशासनानुसारिण्यः, काश्चिदेव
(५) (अव०)-चतुर्दशपूर्वविद्भिः या इति सम्बन्धो योज्यः । प्रथिताः प्रकाशिताः ॥५॥ (६) (अव०)-विनिर्गताः श्रुतग्रन्थानुसारिण्यो वाचो विपुष इव परिशाटिप्रायाः