________________
प्रशमरतिप्रकरणम्
श्रुतबुद्धिविभवपरिहीणकस्तथाऽप्यहमशक्तिमविचिन्त्य ।
द्रमक इवावयवोञ्छकमन्वेष्टुं तत्प्रवेशेप्सुः ॥४॥ आकुलवचनस्तैराढ्यमाकुलं गहनमिति । तदेवंविधं सर्वज्ञशासनपुरं प्रवेष्टमन्तर्निपत्य ज्ञातुमबहुश्रुतैरनधिगतसकलपूर्वार्थैर्दु:खमशक्यमेव प्रवेष्टुमित्यर्थः ॥३॥
(४) टीका-यद्यपीत्यपेक्ष्यमाण इदमाह-श्रुतबुद्धिविभवपरिहीणेत्यादि । यद्यप्यशक्यप्रवेशं सर्वज्ञशासनपुरमस्मद्विधन तथापि श्रुतबुद्धिविभवपरिहीणोऽपि अधिगतसकलपूर्वार्थताविभवस्तेन परिहीणः परित्यक्तः । तथा बुद्धिविभवपरिहीणकश्च ३बुद्धिविभवः कोष्ठबुद्धित्वं बीजबुद्धित्वं पदानुसारित्वमित्यादि । अहमित्यात्मानं निर्दिशति प्रकरणकारः । अहमशक्तिमात्मगतामविचिन्त्यानपेक्ष्यानादृत्यात्मनोऽसामर्थ्यम् । सोऽहं समुद्यतः कर्तुं द्रमक इव द्रमको निःस्वो रङ्कः, स हि देवताबलिसिक्थान्यप्युच्चित्य विप्रकीर्णानि पोषमात्मनः करोति । लूनकेदारिक इव व्रीहिकणान् भुवि निपतितानुच्चित्य शरीरस्थितिं विधत्ते । तेषां विप्रकीर्णानां सञ्चयनमुञ्छ: उञ्छ एवोञ्छकस्तम्, एवमहमपि पूर्वपुरुषसिंहैर्महामतिभिराकृष्यमाणे प्रवचनार्थेऽनेकशो यदवयवजातमाकर्षतां शटितं किञ्चित्तदन्वेष्टुं गवेषयितुं "सर्वज्ञशासनपुरप्रवेशमिच्छामि । परिशटितावयवोच्चयनमात्रकेण सर्वज्ञशासनपुरप्रवेशमाप्तुमिच्छामीत्यर्थ: ॥४||
शब्दानामभिधेयानि, हेतवः-अन्यथाऽनुपपत्तिलक्षणाः, नया-नैगमादयः, शब्दा-घटादयः । इत्येतत् किमित्याह-सर्वज्ञशासनं-जिनागमस्तदेव पुरं-नगरम्, तत् प्रवेष्टम्-अन्तर्गन्तुम्, अबहुश्रुतैःअल्पागमैर्दु:खं-सकष्टं, वर्तत इति शेषः ।।३।।
(४)(वि०) श्रुतम्-आगमः, बुद्धिः-औत्पत्त्यादिका मतिः, ते एव सर्वकार्यसाधकत्वात् विभवो-धनं तेन परिहीणको-रहितः स तथाविधः सन् । तथापि-एवमपि, अहमिति कर्तृभूतात्मनिर्देशः । अशक्तिम्-असामर्थ्यम्, अविचिन्त्य-अविगणय्य, द्रमक इव-रङ्क इव, अवयवानाम्-अर्धधान्यानामुञ्छको-मीलनमवयवोञ्छकस्तम्, अन्वेष्टुं-गवेषयितुम्, तस्मिन्सर्वज्ञशासनपुरे, प्रवेशः-अन्तर्भवनम् तत्रेप्सुः-अभिलाषुकस्तत्प्रवेशेप्सुः, वर्त इति शेषः । आर्याद्वयस्योपनयो यथा-यद्वद्रत्नाढ्यपुरमन्तः प्रवेष्टुमविभवैः सकष्टं तद्वत्सर्वज्ञशासनमवबोद्धं सकष्टं
१अन्यथाऽनुपपत्तिलक्षणाश्च । नया:=प्राप्तार्थरक्षणोपाया नैगमादयः । शब्दाश्चित्रभाषादयः संस्कृत-प्राकृतादयश्च । रत्नानि । आमर्पोषध्यादयश्च ॥३॥
(४) (अव०)-श्रुतमागमो बुद्धिरौत्पातिक्यादिका मतिस्त एव विभवो धनं तेन परिहीणकः । अवयवानामर्धधान्यानामुञ्छको मीलनं गवेषयितुं सर्वज्ञपुरप्रवेशमिच्छुः ॥४॥