________________
प्रशमरतिप्रकरणम्
यद्यप्यनन्तगमपर्ययार्थहेतुनयशब्दरत्नाढ्यम् ।
सर्वज्ञशासनपुरं प्रवेष्टुमबहुश्रुतैर्दुःखम् ॥३॥ १२स्वल्पोऽपि प्रशमामृतबिन्दुहृदयेषु पातितो महान्तमुपकारं प्रसूते । उपकर्तुश्च भव्योपकारः स्वपरहितप्रतिविशिष्टफलदायी जायत इति तदाह-१३वक्ष्ये जिनशासनात् किञ्चित् ।।२।।
(३) टीका-वक्ष्ये इत्युक्तम्, अबहुश्रुतानां तु सकष्टस्तत्र प्रवेश इति आर्याद्वयेनाहयद्यपीति । श्रुतेति । समस्ताभिधानमशक्यं यद्यप्यबहुश्रुतेनास्मद्विधेन सर्वज्ञशासनपुरप्रवेशाभावादेव । तद्धि परमदुर्गदुरवगाहमनन्तगमपर्यायार्थत्वात् । तथा चोक्तम्-२अनन्तगमपर्यायं सूत्रमिति" । अर्थो ह्यनन्तैर्गमैः पर्ययैश्च यस्य सर्वज्ञशासनपुरस्य तदनन्तगमपर्ययार्थम् । गमाः स्यादस्ति स्यान्नास्तीति सप्तविकल्पाः । पर्ययास्तु प्रकृतवस्त्वपेक्षाः । सूत्रपदस्यैकस्यार्था बहवः । हेतुः कारणमात्रमन्वयव्यतिरेकवान् वा । अनेकरूपज्ञेयालम्बना अध्यवसायविशेषा नैगमसङ्ग्रहादयो नयाः३, हस्तिदर्शनेऽन्धानामध्यवसायवशाद् उत्तरोत्तरसूक्ष्मदर्शिनः५ । शब्दप्राभृताभिहितलक्षणाः साधुशब्दाः प्राकृताः संस्कृताश्च । शब्दप्राभृतं च पूर्वान्त:पाति यत इदं प्राकृतव्याकरणं संस्कृतव्याकरणं चाकृष्टम् । अनन्तगमपर्यायार्थहेतुनयशब्दा एव रत्नानि व्याख्यातुर्गिरां मण्डनानि भूषणानि, एभिराढ्यम् ऋद्धिमत् । आढ्यशब्दः प्रभूतवचनोऽनन्तशब्दो वा सर्वत्राभिसम्बध्यते, अर्थस्यानन्त्याद्धेतवो नयाः शब्दाश्चानन्ताः । अथवा चाढ्यशब्द
वक्ष्ये इति प्रतिज्ञा, जिनशासनादिति पदेन गुरुपर्वक्रमलक्षणः सम्बन्धः, यद्वा आधाराधेयरूपः सम्बन्धः, तत्र जिनशासनमाधारः, प्रशमरतिराधेया । अभिधेयं तु किञ्चिदितिपदसूचितम् । इत्यार्याद्वयार्थः ॥२॥
(३) (वि०) 'जिनशासनात् किञ्चिद्वक्ष्य' इत्युक्तम्, अबहुश्रुतानां तु सकष्टस्तत्र प्रवेश इति सदृष्टान्तमार्याद्वयेनाह-यद्यप्येति । श्रुतेति । यद्यपीत्यादिना सकष्टस्तत्र प्रवेश इति प्रतिपादितम् । अनन्ता-अपर्यवसानास्ते च ते गमपर्ययार्थहेतुनयशब्दाश्च तथाविधाः एव रत्नानि-मणयस्तैराढ्यं समृद्धं तत्तथा, तत्र गमाः-सदृशपाठाः, पर्याया-घटादिशब्दानां कुटादिरूपाणि नामान्तराणि, अर्थाः
(२) (अव०)-महाविदेहादिभवान् । 'चः' समुच्चये ।
जिनागमात् किञ्चिदल्पं प्रशमरतिप्रकरणमित्यर्थः ॥२॥
(३) (अव०)-अनन्तानि-बहूनि अक्षयाणि वा गमा मार्गाः सदृशपाठाश्च । पर्याया:= क्रियाध्यवसायरूपा भेदाः क्रमपरिवर्तिनश्च घटादिशब्दानां कुटादिनामान्तराणि वा । अर्थाः= शब्दानामभिधेयानि द्रव्यगणितादयश्च धर्मास्तिकायादयो वा । हेतवोऽपूर्वार्थोपार्जनोपायाः