________________
प्रशमरतिप्रकरणम्
जिनसिद्धाचार्योपाध्यायान् प्रणिपत्य सर्वसाधूंश्च । प्रशमरतिस्थैर्यार्थं वक्ष्ये जिनशासनात् किञ्चित् ॥२॥
(२) टीका-भरतक्षेत्रसम्भूततीर्थकृच्चतुर्विंशतेः प्रकरणकारो नमस्यां विधाय साम्प्रतं समस्तकर्मभूमिवर्तिनो जिनादीन् प्रणिधित्सुराह-जिनसिद्धेति । पूर्वोक्तलक्षणा जिनास्तीर्थकृतः सामान्यके वलिनो वा । सिद्धास्तु निष्ठितसकलप्रयोजनाः सर्वकर्मविनिर्मोक्षाल्लोकशिखराध्यासिनः स्वाधीनसुखाः' साद्यपर्यवसानाः । पञ्चविधाचारस्थास्तदुपदेशदानाद्वा आचार्याः पारमार्थप्रवचनार्थप्ररूपणानिपुणाः । उपेत्य उपगम्य यतोऽधीयन्ते शिष्या इत्युपाध्यायाः सकलदोषरहितसूत्रप्रदाः । अत्र द्वन्द्वसमासस्तान्५ । ज्ञानदर्शनचारित्रलक्षणाभिः पौरुषेयीभिः शक्तिभिर्मोक्षं साधयन्तीति साधवः । सर्वग्रहणाद्येऽपि प्रतिपन्ना:६ समस्तसावद्ययोगविरतिलक्षणं सामायिकं तेऽपि प्रणिपातार्हा इति दर्शयति । अथवा सर्वशब्दः सर्वानेवापेक्षते मध्यवर्तित्वात् । सर्वान् जिनान् सर्वान् सिद्धान् सर्वानाचार्यान् सर्वोपाध्यायान् सर्वसाधूंश्च प्रणिपत्येति प्रत्येकमभिसम्बन्धः । एवमिष्टदेवतोद्देशेनाभिहितः प्रणिपातः । तदनन्तरं मनागुपकारित्वादाचार्यादीनपि प्रणम्यान्वर्थसङ्घायुक्त प्रकरणक्रियां प्रतिजानीते प्रतिविशिष्टप्रयोजनं च दर्शयति कारिकार्धेन'प्रशमरतिस्थैर्यार्थमिति' । अरक्तद्विष्टता प्रशमो वैराग्यमिति वक्ष्यति उपरि माध्यस्थ्यं वैराग्यमित्यत्र । तत्र वैराग्यलक्षणे प्रशमे रतिः १°सक्तिः प्रीतिस्तस्यां निश्चलता प्रशमरतिस्थैर्यम् । अर्थशब्दः प्रयोजनवचनः । प्रशमरतौ कथं नाम स्थिरो मुमुक्षुर्भव्यः स्यादित्यतो वक्ष्ये प्रकरणम् । तच्च जिनशासनादेव वक्ष्यामि, अन्यत्र प्रशमाभावात् । यतः सर्वाश्रवनिरोधैकरसं हि जैनं शासनम् । न चान्यदेवंविधमस्ति प्रशमकारि। प्रवचनं शासनं द्वादशाङ्गमाचारादिदृष्टिवादपर्यन्तम् । तच्च रत्नाकरवदनेकाश्चर्यनिधानम् । तस्मात् किञ्चित् मनाग् वक्ष्ये । समस्ताभिधाने यद्यपि शक्तिर्नास्ति, तथापि ग्रहणस्मरणार्थावधारणार्थ परिदुर्बलानां भव्यानां
(२) (वि०) एवमिह भरतजिनान्नमस्कृत्य सम्प्रति सामान्येन पञ्चपरमेष्ठिस्तुतिमाहजिनेत्यादि। जिनाः पूर्वोक्तस्वरूपाः, 'सिद्धा:-सिद्धि प्राप्ताः आचार्या:-पञ्चविधाचारनिरताः, उपाध्यायाः-सूत्रप्रदाः, अत्र द्वन्द्वसमासः, तान् प्रणिपत्य-नत्वा, सर्वसाधून्-भरतादिक्षेत्रवर्त्यशेषयतीन् । चः समुच्चये । किञ्चिद्वक्ष्ये इति सम्बन्धः । किमर्थम् ?-प्रशमरतिस्थैर्यार्थम्उपशमप्रीतिनिश्चलतायै । वक्ष्ये-अभिधास्ये । कुत इत्याह-जिनशासनात्-सर्वज्ञागमात् । किञ्चिद्अल्पं, प्रशमरतिप्रकरणमिति तात्पर्यम् । तत्र सार्धाऽऽर्यया मङ्गलमभिहितम्, आर्याऽर्धेन तु सप्रतिज्ञं प्रयोजनादित्रयम् । तत्र प्रशमरतिस्थैर्यार्थमित्यनेन गुरुशिष्ययोरैहिकामुष्मिकं प्रयोजनं प्रतिपादितम्,