________________
प्रशमरतिप्रकरणम्
आदिदेवः स आद्यो येषां तीर्थकृतां ते नाभेयाद्याः । सिद्धार्थो राजा तस्य सूनुर्वर्धमानाख्यः स चरमः पश्चिमाख्यो येषां ते सिद्धार्थराजसूनुचरमाः । चरमः पश्चिमो देहो येषां ते चरमदेहाः । ततः परं संसृतेरभावादन्यशरीरग्रहणासम्भवः । कर्माभावात्पञ्चेन्द्रियादिप्राणदशकाभावः । तदभावाच्च शरीराभावः । ततः सांसारिकसुखातीता ऐकान्तिकात्यन्तिकानतिशया निराबाधस्वाधीनमुक्तिसुखभाजः संवृत्ता इत्यर्थः । कियन्तस्ते पुनरिति सङ्ख्यां निरूपयतिपञ्चनवदश चेति, कृतद्वन्द्वसमासाः, चतुर्विंशतिरित्यर्थः । अन्ये तु पञ्चादिषु त्रिष्वपि पदेषु प्रथमाबहुवचनं विदधति । चः समुच्चये । सर्वे च ते शास्तारो भव्यसत्त्वानामुपदेष्टारो धर्मस्य दशविधस्य क्षमादेब्रह्मचर्यावसानस्येत्याह-दशविधधर्मविधिविद इति । विधिः प्रकार: क्षमादिस्तं विदन्तीति । स चोपरिष्टाद्वक्ष्यते सेव्यः क्षान्तिमार्दवेत्यादिना । विदित्वा केवलज्ञानेनोपदिशन्ति मुमुक्षुभ्यः सत्त्वेभ्यः । त एवंविधा सर्वानन्यतीर्थकृतोऽभिभूय त एव जयन्ति नान्ये उपायाभावात् । यथाहाचार्यसिद्धसेनः
अन्येऽपि मोहविजयाय निपीड्य कक्षामभ्युत्थितास्त्वयि विरूढसमानमानाः । अप्राप्य ते तव गतिं कृपणावसानास्त्वामेव वीर ! शरणं ययुरुद्वहन्तः ॥१॥ (द्वा० २-१०)
के पुनस्ते नाभेयाद्याः सिद्धार्थराजसूनुचरमा इत्याह-जिना इति रागद्वेषजेतारो जिनाः । रागद्वेषौ वक्ष्यमाणौ मोहनीयकर्मप्रकृतेर्भेदौ । तद्ग्रहणाच्च सकलमोहप्रकृतिभेदग्रहणं, तज्जये च ज्ञानदर्शनावरणान्तरायाणि क्षयमुपयान्तीत्यतो घातिकर्मचतुष्टयक्षयात् केवलज्ञानभास्कराविर्भावोऽतो रागद्वेषजयग्रहणं सूचनमात्रकमिति ॥१॥
चतुर्विंशतिरित्यर्थः, अन्ये तु पञ्चादिषु त्रिष्वपि पदेषु प्रथमाबहुवचनं ददति इति । चः समुच्चये । दशविधधर्मविधि-क्षान्त्यादिदशप्रकारसदाचरणविधानं वक्ष्यमाणं विदन्ति-जानन्ति ये ते तथा । एवं विशेषणपञ्चकयुताः किम् ?-जयन्ति-अतिशेरते । के ?-जिना-रागादिजेतार इति ॥१॥
तदनुकथा११ जीवाद्या१२ उपयोगो१३ ३भाव:१४ षड्विधद्रव्यम्१५ । चरणं१६ शीलाङ्गानि१७ च ध्यान१८श्रेणी१९ "समुद्घात:२० ॥२॥ योगनिरोध:२१ क्रमशः शिवगमनविधानमन्तफलमस्या:२२ । द्वाविंशत्यधिकारा मुख्या इह धर्मकथिकायाम् ॥३॥ श्रीउमास्वातिवाचकः पञ्चशतप्रकरणप्रणेता प्रशमरतिप्रकरणं प्ररूपयन्नादौ मङ्गलमाहनाभेयाद्या इति । चरमो देहः कायश्चरमदा वा चरमभवदायिनी ईहा येषाम् ॥१॥