________________
परिशिष्ट-१, प्रशमरति: मूलम्
२०७
सेव्यः क्षान्तिर्दिवमार्जवशौचे च संयमत्यागौ । सत्यतपोब्रह्माकिञ्चन्यानीत्येष धर्मविधिः ॥१६७॥ धर्मस्य दया मूलं न चाक्षमावान् दयां समादत्ते । तस्माद्यः क्षान्तिपरः स साधयत्त्युत्तमं धर्मम् ॥१६८॥ विनयायत्ताश्च गुणाः सर्वे विनयश्च मार्दवायत्तः । यस्मिन् मार्दवमखिलं स सर्वगुणभाक्त्वमाप्नोति ॥१६९॥ नानार्जवो विशुद्ध्यति न धर्ममाराधयत्यशुद्धात्मा । धर्मादृते न मोक्षो मोक्षात्परं सुखं नान्यत् ॥१७०॥ यद् द्रव्योपकरणभक्तपानदेहाधिकारकं शौचम् । तद् भवति भावशौचानुपरोधाद्यत्नतः कार्यम् ॥१७१॥ पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः ॥१७२॥ बान्धवधनेन्द्रियसुखत्यागात् त्यक्तभयविग्रहः साधुः । त्यक्तात्मा निर्ग्रन्थस्त्यक्ताहङ्कारममकारः ॥१७३॥ अविसंवादनयोगः कायमनोवागजिह्मता चैव । सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥१७४॥ अनशनमूनोदरता वृत्तेः सक्षेपणं रसत्यागः । कायक्लेश: संलीनतेति बाह्यं तपः प्रोक्तम् ॥१७५॥ प्रायश्चित्तध्याने वैयावृत्त्यविनयावथोत्सर्गः । स्वाध्याय इति तपः षट्प्रकारमाभ्यन्तरं भवति ॥१७६॥ दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद् ब्रह्माष्टादशविकल्पम् ॥१७७॥ अध्यात्मविदो मूर्छा परिग्रहं वर्णयन्ति निश्चयतः । तस्माद् वैराग्येप्सोराकिञ्चन्यं परो धर्मः ॥१७८॥ दशविधधर्मानुष्ठायिनः सदा रागदोषमोहानाम् । दृढरूढघनानामपि भवत्युपशमोऽल्पकालेन ॥१७९॥ ममकाराहङ्कारत्यागादतिदुर्जयोद्धतप्रबलान् । हन्ति परीषहगौरवकषायदण्डेन्द्रियव्यूहान् ॥१८०॥ प्रवचनभक्तिः श्रुतसम्पदुद्यमो व्यतिकरश्च संविग्नैः । वैराग्यमार्गसद्भावभावधीस्थैर्यजनकानि ॥१८१॥ आक्षेपणी विक्षेपणी विमार्गबाधनसमर्थविन्यासाम् । श्रोतृजनश्रोत्रमनःप्रसादजननीं यथा जननी ॥१८२॥ संवेजनी च निर्वेदनी च धर्त्या कथां सदा कुर्यात् । स्त्रीभक्तचौरजनपदकथाश्च दूरात् परित्याज्याः ॥१८३॥
२०७