________________
२०८
यावत्परगुणदोषपरिकीर्तने व्यापृतं मनो भवति । तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥ १८४॥ शास्त्राध्ययने चाध्यापने च सञ्चिन्तने तथात्मनि च । धर्मकथने च सततं यत्नः सर्वात्मना कार्यः ॥ १८५ ॥ शास्विति वाग्विधिविद्भिर्धातुः पापठ्यतेऽनुशिष्ट्यर्थः । त्रैङिति पालनार्थे विनिश्चितः सर्वशब्दविदाम् ॥१८६॥ यस्माद् रागद्वेषोद्धतचित्तान् समनुशास्ति सद्धर्मे । सन्त्रायते च दुःखाच्छास्त्रमिति निरुच्यते सद्भिः ॥ १८७॥ शासनसामर्थ्येन तु सन्त्राणबलेन चानवद्येन । युक्तं यत्तच्छास्त्रं तच्चैतत् सर्वविद्वचनम् ॥१८८॥ जीवाजीवाः पुण्यं पापाश्रवसंवराः सनिर्जरणाः । बन्धो मोक्षश्चैते सम्यक् चिन्त्या नवपदार्थाः ॥ १८९ ॥ जीवा मुक्ताः संसारिणश्च संसारिणस्त्वनेकविधाः । लक्षणतो विज्ञेया द्वित्रिचतुः पञ्चषड्भेदाः ॥ १९०॥ द्विविधाश्चराचराख्यास्त्रिविधाः स्त्रीपुंनपुंसका ज्ञेयाः । नारकतिर्यङ्मानुषदेवाश्च चतुर्विधाः प्रोक्ताः ॥१९१॥ पञ्चविधास्त्वेकद्वित्रिचतुःपञ्चेन्द्रियाश्च निर्दिष्टाः । क्षित्यम्बुवह्निपवनतरवस्त्रसाश्चेति षड्भेदाः ॥ १९२॥ एवमनेकविधानामेकैको विधिरनन्तपर्यायः । प्रोक्तः स्थित्यवगाहज्ञानदर्शनादिपर्यायैः ॥१९३॥ सामान्यं खलु लक्षणमुपयोगो भवति सर्वजीवानाम् । साकारोऽनाकारश्च सोऽष्टभेदश्चतुर्धा च ॥ १९४॥ ज्ञानाऽज्ञाने पञ्चत्रिविकल्पे सोऽष्टधा तु साकारः । चक्षुरवक्षुरवधिकेवलदृग्विषयस्त्वनाकारः ॥ १९५॥ भावा भवन्ति जीवस्यौदयिकः पारिणामिकश्चैव । औपशमिकः क्षयोत्थः क्षयोपशमजश्च पञ्चैते ॥ १९६ ॥ ते चैकविंशति-त्रि-द्वि-नवाष्टादशविधाश्च विज्ञेयाः । षष्ठश्च सान्निपातिक इत्यन्यः पञ्चदशभेदः ॥१९७॥ एभिर्भावैः स्थानं गतिमिन्द्रियसम्पदः सुखं दुःखम् । सम्प्राप्नोतीत्यात्मा सोऽष्टविकल्पः समासेन ॥ १९८ ॥ द्रव्यं कषाययोगावुपयोगो ज्ञानदर्शने चेति । चारित्रं वीर्यं चेत्यष्टविधा मार्गणा तस्य ॥ १९९॥ जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मा । योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् ॥ २००॥
प्रशमरतिप्रकरणम्