________________
२०६
प्रशमरतिप्रकरणम्
निर्जरणलोकविस्तरधर्मस्वाख्याततत्त्वचिन्ताश्च । बोधेः सुदुर्लभत्वं च भावना द्वादश विशुद्धाः ॥१५०॥ इष्टजनसम्प्रयोगद्धिविषयसुखसम्पदस्तथारोग्यम् । देहश्च यौवनं जीवितञ्च सर्वाण्यनित्यानि ॥१५१॥ जन्मजरामरणभयैरभिद्रुते व्याधिवेदनाग्रस्ते । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥१५२॥ एकस्य जन्ममरणे गतयश्च शुभाशुभा भवावर्ते । तस्मादाकालिकहितमेकेनैवात्मनः कार्यम् ॥१५३॥ अन्योऽहं स्वजनात् परिजनाच्च विभवाच्छरीरकाच्चेति । यस्य नियता मतिरियं न बाधते तं हि शोककलिः ॥१५४॥ अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचित्वाच्च । देहस्याशुचिभावः स्थाने स्थाने भवति चिन्त्यः ॥१५५॥ माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे । व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥१५६॥ मिथ्यादृष्टिरविरतः प्रमादवान् यः कषायदण्डरुचिः । तस्य तथाश्रवकर्मणि यतेत तन्निग्रहे तस्मात् ॥१५७॥ या पुण्यपापयोरग्रहणे वाक्कायमानसी वृत्तिः । सुसमाहितो हितः संवरो वरददेशितश्चिन्त्यः ॥१५८॥ यद्वद्विशोषणादुपचितोऽपि यत्नेन जीर्यते दोषः । तद्वत् कर्मोपचितं निर्जरयति संवृतस्तपसा ॥१५९॥ लोकस्याधस्तिर्यग् विचिन्तयेच॑मपि च बाहल्यम् । सर्वत्र जन्ममरणे रूपिद्रव्योपयोगांश्च ॥१६०॥ धर्मोऽयं स्वाख्यातो जगद्धितार्थं जिनैर्जितारिगणैः । येऽत्र रतास्ते संसारसागरं लीलयोत्तीर्णाः ॥१६१॥ मानुष्यकर्मभूम्यार्यदेशकुलकल्पतायुरुपलब्धौ । श्रद्धाकथकश्रवणेषु सत्स्वपि सुदुर्लभा बोधिः ॥१६२॥ तां दुर्लभां भवशतैर्लब्ध्वाऽप्यतिदुर्लभा पुनर्विरतिः । मोहाद्रागात्कापथविलोकनाद् गौरववशाच्च ॥१६३॥ तत् प्राप्य विरतिरत्नं विरागमार्गविजयो दुरधिगम्यः । इन्द्रियकषायगौरवपरीषहसपत्नविधुरेण ॥१६४॥ तस्मात् परीषहेन्द्रियगौरवगणनायकान् कषायरिपून् । क्षान्तिबलमार्दवार्जवसन्तोषैः साधयेद्धीरः ॥१६५॥ सञ्चिन्त्य कषायाणामुदयनिमित्तमुपशान्तिहेतुं च । त्रिकरणशुद्धमपि तयोः परिहारासेवने कार्ये ॥१६६॥