SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ 22 अन्यगृहिलिङ्गसिद्धिविचारेऽपि तद्वाच आवश्यकता दुर्वारा, गोशालकस्य चाचेलक्यावस्थश्रीमन्महावीरस्वामिभ्यः पृथग्भावात् अचेलतयैवावस्थानात्, ऐतिहासिका अपि आजीवकमतमचेलकमित्यास्थिताः, जिने एकादशेति वचनं तु उपशान्तमोहादेरुक्तत्वात् सरलमेव, नग्नाटनाटकनिकन्दननिपुणं तु अवश्यमेव तत् । वाचकवरा ग्रन्थेऽस्मिन्नधिकाराणां द्वाविंशतिमुपबबन्धुरिति प्रतिभानं तु प्रकृतवृत्तिविलोकनपराणां प्रान्त्यभागे तदुल्लेखान्न दुष्करमिति । वृत्तिकाराश्चात्र श्रीहरिभद्रसूरीन्द्राः परं नैते याकिनीमहत्तरासूनुत्वेन ख्याता विरहाङ्काः, किन्तु श्रीमानदेवसूरिसन्तानीयाः, प्रशस्तेश्चास्या वृत्तेः स्पष्टमेतत् । निर्माणकालश्च वृत्तेः पञ्चाशीत्यधिकैकादशशताब्दीरूप इति स्वयमेव वृत्तिकारा दर्शितवन्तः । यद्यपि सवृत्तिकमेतद् ग्रन्थरत्नं मुद्रितपूर्वं तथाऽपि तत्प्रतीनां दुर्लभतमत्वात् सकलश्रमणसङ्घस्यातीवोपयोगित्वाच्च भूय उन्मुद्रणमस्य । कृतेऽपि शोघनयत्ने स्खलन - बाहुल्यान्मन्दमेधसां क्षन्तव्यं क्षुण्णमत्र विपश्चिद्वरैरिति प्रार्थयित्वोपरमते वीरसं० २४६६ वि० सं० १९९६ चैत्रकृष्णषष्ठ्यां ... आनन्दसागरोऽयमिति श्री सिद्धक्षेत्रे
SR No.009263
Book TitlePrasharamrati Prakaranam
Original Sutra AuthorUmaswati, Umaswami
AuthorHaribhadrasuri, Anandsagarsuri, Sagaranandsuri
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages333
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy