________________
27
६-३ योग.
योगः शुद्धः पुण्यास्रवस्तु पापस्य तद्विपर्यासः । ४-५-६ पुण्य-पाप
वाक्कायमनोगुप्तिनिराश्रवः संवरस्तूक्तः ॥ २२०॥ ९-७ माता हि भूत्वा भगिनी | अशुचिकरणसामर्थ्यादाद्युत्तरकारणाशुचितत्वाच्च ।
माता भूत्वा दुहिता देहस्याशुचिभावः स्थाने स्थाने भवति चिन्त्यः ॥१५५।। आद्युत्तरकारणाशुचित्वा० माता भूत्वा दुहिता भगिनी भार्या च भवति संसारे ।
| व्रजति सुतः पितृतां भ्रातृतां पुनः शत्रुतां चैव ॥१५६।। ९-११ जिनवेदनीयाश्रयाः
तद्यथा क्षुत्पिपासा०
अव्याहतश्रीमन्महावीरस्वामिशासनाः श्वेताम्बरास्तु अनेकग्रन्थेषु तत्त्वार्थसूत्रतद्भाष्यैतत्प्रकरणानामेककर्तृकतामुद्घाटमस्तकं ब्रुवत एव ।
प्रकरणमेतत् न श्रीतत्त्वार्थवत् केवल-दर्शनशास्त्रतया दृब्धं, किन्तु श्रीचतुर्विधश्रमणादिसङ्घस्याराधनाहेतुकप्रशमस्थैर्यार्थं, तत एव च प्रान्त्यभागे अकृतार्थसाधूनाश्रित्यानुषङ्गिकपारमार्थिकफलदर्शनवत् (२९६ तः ३०१ यावत्) गृहाश्रम्यपरपर्याय श्रावकाणां तव्रतसम्यक्त्वाचारनिदर्शनपूर्वकं तथाफलदर्शनम् । शास्त्रं चेदं प्रशमरत्याख्यमन्वयर्थसञ्ज्ञाधारकं, तत एव 'प्रशमेष्टतयाऽनुसृताः' इति ‘प्रशमजननशास्त्रपद्धतयः' इति चोदाजहुः पूज्याः । न
चेदं तत्त्वार्थादिवत् पदार्थस्वरसनिरूपणामात्रप्राधान्यभृत् सार्वपार्षत्कं वा, किन्त्वाचरणप्राधान्यभृत्, तत एव च प्रान्ते यतिदेशविरतानां साक्षात् पारम्परिकं च यत् प्रशमाचरणस्य फलं तदुपादर्शयन्, प्रशमश्च जैनानां नेतरदर्शनभावितानामिव केवलात्ममननादिलभ्यः, किन्तु कषायशान्तियुग्वैराग्यादिसमाचरणद्वारा, अत एव तत्रभवन्तोऽत्र प्रशमप्राधान्येन प्रावीवर्त्तन्, सम्यक्त्वादीनां चाराधनापरतया व्याख्यानं चक्रुः ।
विषयाश्चेहत्या विषयानुक्रमतो यथावद् ग्रन्थपरिभावनतश्च गम्याः । शास्त्रं चेदं वाचकचक्रवर्तिविरचित्वेनातीव प्रयत्नं, तत एव चाचाराङ्गादिचूर्णिकाराद्या अपि 'नैवास्ति राजराजस्ये'त्याद्याः कारिकाः साक्षित्वेनोपष्टम्भकत्वेन चोदाहृतवन्तः । न च वाच्यं वाचकचक्रवर्तिन इमे दिगम्बरमतोत्पत्तेराक्कालीनाः, न तु ततः प्राचीनाः, कथमन्यथा 'सचित्ताचित्तमीसेसु' इत्यादिवीतरागागमवत् 'सचित्तादिसङ्ग्रहः परिग्रहः' इति परिग्रहस्य लक्षणमकृत्वा 'मूर्छा परिग्रहः' इति परिग्रहस्य लक्षणं नग्नाटनाटकनिकन्दनिपुणं न्यवेदयन् ?? कथं च परिषहावतारे 'क्षीणकषाये क्षीणमोहे क्षीणे वा एकादशेत्येवमप्रणीय सूत्रं 'जिने एकादशे ति प्रणीतवन्तः ? दिग्वसनकल्पितकेवल्याहारनिषेधप्रतिषेधपरमेव तत्, कथं च 'यद्वत्तुरग' इत्यादिना सत्स्वप्युपकरणेषु निर्ग्रन्थतानिरूपणपटुं चक्रुः कारिकामत्र ? सत्यमेतत्, परं न ह्येतद् वक्तुमपि शक्यं यदुत नान्ये दिगम्बरेभ्यः सचित्तादिसङ्गमात्रविरोधिनो नाभूवन्,