________________
प्रशमरतिप्रकरणम्
१९३
प्रकाशयति प्रतिपादयति जैनमेव शासनम् । सर्वे च ते गुणाश्च सर्वगुणाः, सर्वगुणानां सिद्धिनिष्पत्तिः सर्वगुणसिद्धिः। ३सिद्धिर्येन धनेन, तच्च धनमिदमेव प्रवचनम् । अतः सर्वगुणसिद्धिसाधनधनमर्हच्छासनं द्रव्यपर्यायनयप्रपञ्चात्मकमन्यशासनन्यग्भावेन जयति 'इति ॥३१४॥*
(वि०) शास्त्रस्य पीठबन्धः कषायरागादि कर्म करणार्थाः ।
अष्टौ च मदस्थानान्याचारो भावना धर्म:१० ॥७॥ तदनु कथा११ जीवाद्या१२ उपयोगा३ भाव षड्विधद्रव्यम्५ । चरणं१६ शीलाङ्गानि च ध्यान श्रेणी समुद्धाता:२० ॥८॥ योगनिरोध:२१ क्रमशः शिवगमनविधानमन्तफलमस्याः । द्वाविंशत्यधिकारा मुख्या इह धर्मकथिकायाम् ।।९।। व्याख्यामेतस्य शास्त्रस्य, कृत्वा पुण्यं यदर्जितम् । तेन भव्यो जनः सर्वो, लभतां शममुत्तमम् ॥१०॥ धात्री धात्रीधरा यावद्यावच्चन्द्रदिवाकरौ । तावदज्ञानविध्वंसान्नन्द्यादेषा सुवृत्तिका ॥११।। ग्रन्थाग्रमत्र जातं प्रत्यक्षरगणनतः ससूत्रायाः । सद्वृत्तेरष्टादश शतानि सच्छ्लोकमानेन ॥१२॥ (ग्रन्थाग्रं अङ्कतः १८००)
★ ह. प्रतेः पुष्पिका । इति प्रशमरतिवृत्तिः समाप्ता । संवत् १४८७ वर्षे कार्तिक शुदि १० गुरौ श्रीदेवलवाटकनगरे । श्रीचण्ड(चन्द्र)गच्छे श्रीपूर्णचन्द्रसूरिपट्टकमलहंसैः श्रीहेमहंससूरिभिः स्वयं पुण्यमेरुगणिना च मुद्गलभङ्गे पं० हेमसारगणिमीलितपर्ण.....पुस्तकस्याभ्य(?) हेममेरूगणिदर्शितादर्शकेन त्रुटिपूर्तिः कृता । चिरं नन्दतु साधुसाध्वीभिर्वाच्यमाना कल्याणमालां करोतु ॥ ससूत्रस्यास्य ग्रन्थस्य ग्रन्थाग्रं श्लोक २५०० ॥ अत्र तु पुस्तकेऽसूत्रा वृत्तिरस्ति । एतद् ग्रंथाग्रं सूत्रप्रमाणरहितं विचार्य कार्यं बुद्धि...|
यादृशं पुस्तके दृष्टं तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥ शुभं भवतु ॥ श्रेयो भवतु ॥