________________
१९२
सर्वसुखमूलबीजं सर्वार्थविनिश्चयप्रकाशकरम् । सर्वगुणसिद्धिसाधनधनमर्हच्छासनं जयति ॥ ३१४॥
(३१४) टीका - सर्वसुखेत्यादि । सर्वमेव सुखं सर्वसुखं दुःखलेशाकलङ्कितं मुक्तिसुखं, तस्य मूलमाद्यं प्रथमं बीजमर्हच्छासनम् । अथवा वैषयिकाणां सुखानां मुक्तिसुखस्य च सर्वेषां सुखानां मूलबीजं जिनशासनम् । सर्वे च तेऽर्थाश्च सर्वार्थाः पञ्चास्तिकायाः ससमयाः 'सर्वेषु सर्वार्थेषु यो विनिश्चयः परिच्छेदः । २ एवं संसारस्थितिघटना मुक्तिमार्गश्चेति तं
(३१४) (वि०) साम्प्रतमवसानमङ्गलमाह - सर्वेति । जयति - अतिशेते । किं तत् ? - अर्हच्छासनम् । कीदृशं ? - सर्वसुखानामैहिकामुष्मिकाणां मूलं कारणमिति समासः । सर्वार्थानां विनिश्चयो-निर्णयस्तस्य प्रकाशः - प्रकटनं तं करोतीति समासः । सर्वगुणानां - क्षान्त्यादीनां सिद्धिःनिष्पत्तिस्तस्याः साधने- निष्पादने धनमिव धनं, यथा धनेन सता सर्वाणि कार्याणि सिद्ध्यन्ति तथा क्षान्त्यादिगुणावाप्तिसाधने धनकल्पमर्हच्छासनं - जैनागमो जयति - विजयमनुभवतीति ॥३१४॥
यत्यालये मन्दगुरूपशोभे सन्मङ्गले सद्बुधराजहंसे । तारापथे वाऽऽशुकविप्रचारे श्रीमानदेवाभिधसूरिगच्छे ||१||
भव्या बभूवुः शुभशस्यशिष्याः, अध्यापकाः श्रीजिनदेवसञ्ज्ञाः । तेषां विनेयैर्बहुभक्तियुक्तैः, प्रज्ञाविहीनैरपि शास्त्ररागात् ॥२॥
श्रीहरिभद्राचार्यै रचितं प्रशमरतिविवरणं किञ्चित् । परिभाव्य वृद्धटीकाः सुखबोधार्थं समासेन ॥३॥ अणहिलपाटकनगरे श्रीमज्जयसिंहदेवनृपराज्ये । बाणवसुरुद्र(११८५)सङ्ख्ये विक्रमतो वत्सरे व्रजति ॥४॥
प्रशमरतिप्रकरणम्
श्रीधवलभाण्डशालिकपुत्रयशोनागनायकवितीर्णे । सदुपाश्रये स्थितैस्तैः समर्थितं शोधितं चेति ॥५॥
यदिहाशुद्धं किञ्चित् छद्मस्थत्वेन लिखितमस्माभिः । तच्छोध्यं धीमद्भिः सम्यक् सञ्चिन्त्य समयज्ञैः ||६||
(३१४) (अव० ) - ऐहिकामुष्मकसुखमूलकारणं सर्वभावानां विनिश्चयो निर्णयस्तस्य प्रकटनकरं क्षान्त्यादि गुणसिद्धिसाधने धनमिव जयति विजयमनुभवति ॥३१४॥
★ ड. प्रतेः पुष्पिका - इति श्रीप्रशमरतिप्रकरणमवचूरितम् । श्रीमानदेवसूरिशिष्य श्रीहरिभद्राचार्यसूरिभिः ॥ संवत् ११८५ विरचितमेतत्प्रकरणं लघुवृत्तेरिति ॥छ| पंडितलाभसागरगणिना लिखिता ॥छ ||