________________
प्रशमरतिप्रकरणम्
१९१
सद्भिर्गुणदोषज्ञैर्दोषानुत्सृज्य गुणलवा ग्राह्याः । सर्वात्मना च सततं प्रशमसुखायैव यतितव्यम् ॥३१२॥ यच्चासमञ्जसमिह छन्दःशब्दसमयार्थतो मयाभिहितम् । पुत्रापराधवत्तन्मर्षयितव्यं बुधैः सर्वम् ॥३१३॥
(३१२) टीका-निस्साराप्येषा प्रशमरति:-सद्भिर्गुणेत्यादि । सन्तः साधवस्तैर्गुणदोषज्ञैर्गुणांश्च दोषांश्च अवगच्छन्ति ये ते गुणदोषज्ञास्तैः सद्भिरत्र दोषानुत्सृज्य शब्दच्छन्दोऽर्थादिकान् परित्यज्य गुणलवा ग्राह्याः । लवग्रहणादल्पगुणत्वं दर्शयति, कियतो गुणान् वक्तुं शक्नोत्यस्मदादिः ? | सर्वात्मना सर्वप्रयत्नेन । सततं सदैव । वैषयिकसुखनिरभिलाषेण प्रशमसुखार्थमेव श्रुत्वा प्रयतितव्यमिति ॥३१२॥
(३१३) टीका-यच्चेत्यादि । असमञ्जसमघटमानम् । यदिह प्रशमरतौ । केनाकारेणासमञ्जसं ? छन्दसा, शब्दशास्त्रेण, प्रवचनप्रसिद्धस्यार्थस्यान्यथा वा प्ररूपणेन । पुत्रापराधवत्तत् मर्षयितव्यम् । यथा पुत्रस्य शिशोरपराधं पिता मृष्यति क्षमते, तथा प्रवचनवृद्धैः सद्भिः बुधैः सर्वमशेषं क्षन्तव्यमिति ॥३१३।।
(३१२) (वि०) साम्प्रतं सत्पुरुषैर्यादृग्गुणोपेतैर्ये त्याज्या ये च ग्राह्या यन्निमित्तश्च यत्नो विधेयस्तदेतत्सर्वमाह-सद्भिरिति । सद्भिः-सत्पुरुषैर्गुणदोषज्ञैः-यथावस्थितगुणदोषविद्भिः, किं कार्यं ?-दोषानुत्सृज्य-परित्यज्य गुणलवा ग्राह्या-गुणांशा ग्राह्याः प्रकटनीयाः । केन ?-सर्वात्मना च-अशेषप्रकारैरपि सततम्-अनवरतम् । तथा प्रशमसुखायैव यतितव्यं यत्नः कार्य इति ।।३१२।।
_(३१३) (वि०) साम्प्रतमौद्धत्यं परिहरन् छद्मस्थत्वात् स्वस्य सदोषतां पश्यन् अन्यैश्च यद्विधेयं तद्दर्शयन्नाह-यच्चेति । यत्पुनरिह-अत्र प्रशमरतिप्रकरणेऽसमञ्जसम्-असङ्गतं तन्मम मर्षयितव्यमिति योगः। छन्दो-रचनाविशेषः, शब्दः-संस्कृतादिभेदभिन्नः, समय:-सिद्धान्तः, तस्यार्थः-अभिधेयस्तेषां द्वन्द्वः तेभ्यस्ततः-तानाश्रित्य अभिहितं-प्रतिपादितं पुत्रापराधवत्तनयविनाशवत्पित्रेव तन्मर्षयितव्यं-सोढव्यं बुधैः-विद्वद्भिः सर्वमिति ॥३१३।।
(३१२) (अव०)-सर्वात्मनाऽशेषप्रकारैः सततमनवरतं यत्नः कार्यः ॥३१२॥
(३१३) (अव०)-इह प्रशमरतिप्रकरणेऽसमञ्जसमसङ्गतं, छन्दो-रचनाविशेषः, शब्द:= संस्कृतादिभेदभिन्नः, समयः सिद्धान्तः, तस्यार्थोऽभिधेयं मर्षयितव्यं-क्षन्तव्यम् ॥३१३॥