________________
१९०
जिनशासनार्णवादाकृष्टां धर्मकथिकामिमां श्रुत्वा । रत्नाकरादिव जरत्कपर्दिकामुद्धृतां भक्त्या ॥३११॥
प्रशमरतिप्रकरणम्
I
एवमिति वर्णितेन न्यायेन । इहेति मनुष्येष्वेव बाहुल्येन स्वर्गफलम् । तिर्यग्गतौ च केषाञ्चित्स्वर्गावाप्तिर्नान्यत्र । अपवर्गफलं पुनर्मनुष्येष्वेव । शुभमिति वैषयिकस्वाभाविकभेदादुभयमपि फलं शुभमिति । तदेव तदपवर्गाख्यं फलं प्राप्यतेऽनगारैः साधुभिः । अगारिभिश्च स्वर्गफलं १प्राप्यते । अपवर्गफलं तु पारम्पर्येणावाप्यते गृहाश्रमिभिरिति । कीदृशैरनगारैरगारिभिश्च ? उत्तरगुणाढ्यै : प्रधानगुणयुक्तैः मूलोत्तरगुणसम्पन्नैराढ्यैर्निरवद्याशेषसंयमानुष्ठायिभिरिति ॥ ३१०॥
( ३११ ) टीका-उक्तो योऽर्थः प्रकरणप्रारम्भात् प्रभृति स सर्व एव प्रवचने, न मया स्वमनीषिकया किञ्चित्कल्पितमत्र प्रवचनस्य च महानुभावत्वमनयार्यया दर्शयतिजिनशासनेत्यादि । जिनशासनमर्णव इव जिनशासनार्णवः । बहुत्वादनेकाश्चर्यनिधानं च । उपमानोपमेयभावः । तस्माज्जिनशासनसागरान्निष्कृष्टामाक्षिप्तां जिनशासनोदधौ निहितानर्थानुपादाय लघ्वी धर्मकथा 'कथिता, न तु ५ विस्तरेणोदिता । सङ्क्षिप्तार्थामिमामाकर्ण्य श्रुत्वाऽवधार्य रत्नाकरादिव जरत्कपर्दिकामित्यात्मन औद्धत्यं परिहरति । रत्नाकरादनेकरत्ननिधेः । तस्माद्यथा जरत्कपर्दिकेति, 'मृजैवाति शोभना भवति जरत्कपर्दिका तु परिपेलवा निःसारा च । मयाल्पमतिना, तद्वदियं जरत्कपर्दिकास्थानीया आकृष्टा तां जरत्कपर्दिकावदुद्धृताम् । भगवत्सु साधुषु च भक्तिर्या प्रीतिस्तया प्रेरितेनाकृष्टामिति । आकृष्टेति प्रशमरतिः सम्बध्यते, उद्धृतेति कपर्दिका सम्बध्यते इति ॥३११॥
इह चतुर्थगणः पञ्चमात्र इति । एतत्फलं - जन्यं । कुतः ? - प्रशमरतेः सकाशात् । कीदृशम् ? -शुभमिह स्वर्गापवर्गयोश्च प्राप्यते । कैः ? - अनगारैः - साधुभि:, तथा अगारिभिः - गृहिभिश्च उत्तरगुणाढ्यै :निजभूमिकापेक्षया पिण्डविशुद्ध्यादिदिग्व्रतादिसमृद्धैरिति ॥३१०॥
( ३११ ) (वि०) जिनशासनेति । जिनशासनार्णवात्-तीर्थकृदागमसिन्धोराकृष्टाम्आनीतां धर्मकथिकां-द्विविधधर्मप्रतिपादिकामिमां प्रशमरतिमेतच्छास्त्रं कर्मतापन्नं । किं कृत्वा ?श्रुत्वा-आकर्ण्य । कस्मादिव काम् ? - रत्नाकरादिव समुद्रादिव जरत्कपर्दिकां-जीर्णवराटिकां, समुद्धृतां-समाकृष्टाम् । कया ? - भक्त्या - प्रशमप्रीत्या । अयमर्थः- आकृष्टामिति जिनशासनादित्यत्र योज्यम् । उद्धृतामिति रत्नाकरादित्यत्र सम्बन्धनीयम् । अत्रार्याद्वयक्रियाकारकघटनैवं बोद्धव्या-इमां धर्मकथिकां श्रुत्वा फलं शुभं प्रशमरतेः सम्प्राप्यतेऽनगारैरगारिभिरिति ॥ ३११॥
(३११) (अव० )–कविरात्मन औद्धत्यं परिहरति-धर्मकथिकां द्विविधर्मप्रतिपादिकाम् इमां प्रशमरतिं रत्नाकरादिव जीर्णकपर्दिकामिव प्रशमप्रीत्या ॥ ३११ ॥