________________
प्रशमरतिप्रकरणम्
१८९
प्राप्तः कल्पेष्विन्द्रत्वं वा सामानिकत्वमन्यद्वा । स्थानमुदारं तत्रानुभूय च सुखं तदनुरूपम् ॥३०८॥ नरलोकमेत्य सर्वगुणसम्पदं दुर्लभां पुनर्लब्ध्वा । शुद्धः स सिद्धिमेष्यति भवाष्टकाभ्यन्तरे नियमात् ॥३०९॥ इत्येवं प्रशमरतेः फलमिह स्वर्गापवर्गयोश्च शुभम् ।
सम्प्राप्यतेऽनगारैरगारिभिश्चोत्तरगुणाढ्यैः ॥३१०॥ (३०८) टीका-प्राप्तः कल्पेष्विन्द्रेत्यादि । कल्पाः सौधर्मादयस्तेष्विन्द्रत्वमधिपतित्वमवाप्य । कदाचिद्वा सामानिकत्वमिन्द्रतुल्यत्वम्, इन्द्रत्वरहितास्तु सामानिका भवन्ति, शेषं स्थित्यादि तुल्यम् । अन्यद्वा स्थानमुदारं विशिष्टं सामान्यदेवत्वं प्राप्य वैमानिकेषु । तत्र च देवजन्मसुखं स्थानानुरूपमनुभूय जघन्यमध्यमोत्कृष्टम् ॥३०८॥
(३०९) टीका-नरलोकेत्यादि । स्थितिक्षयात्ततः प्रच्युतो मनुष्यलोके गुणवत्सु मनुष्येषु आर्यदेशादिषु जातिकुलविभवरूपसौभाग्यादिकां सम्पदं सम्यक्त्वादिगुणसम्पदं च लब्ध्वा । शुद्धः सकलकर्मकलङ्कनिर्मुक्तः । स एवं सुखपरम्परया सिद्धिमेष्यति २मोक्षं प्राप्स्यति । अष्टानां भवानामर्वागभ्यन्तरे नियमेनैवेति । तस्मादादरवता गृहस्थधर्मोऽप्यनुपाल्यः, पर्यन्ते च साधुधर्म इति ॥३०९॥
(३१०) टीका-इत्येवं प्रशमरतेरित्यादि । इतिशब्दः प्रकरणपरिसमाप्तिप्रदर्शनार्थः ।
(३०८) (वि०) प्राप्त इति । ततः प्राप्तः । केषु ?-कल्पेषु-सौधर्मादिषु इन्द्रत्वं सामानिकत्वमन्यद्वा स्थानमुदारं-प्रधानम् । तत्र-तेषु स्थानेषु अनुभूय च-संवेद्य च सुखं-शर्म तदनुरूपं-निजस्थानकानुसदृशमिति ॥३०८॥
(३०९) (वि०) नरेति । ततोऽपि च्युतः नरलोकमेत्य-आगत्य सर्वगुणसम्पदंविषयसुखसमृद्धिं दुर्लभां पुनः लब्ध्वा शुद्धः सन् स सिद्धिमेष्यति । क्व ?-भवाष्टकाभ्यन्तरे नियमात्-नियमेनेति । आर्यासप्तकस्य श्रावकधर्मविधिप्रतिपादकस्यायं सक्षेपार्थ इति ॥३०९।।
(३१०) (वि०) इदानीं यदिमां प्रशमरतिं श्रुत्वा प्राप्यते तदार्याद्वयेनाह-इत्येवमिति ।
(३०८) (अव०)-सौधर्मादिष्विन्द्रत्वं सामान्यदेवत्वं वा विशिष्टमुदारम् अन्यद्वा स्थानं अवाप्य तत्र स्थानाऽनुरूपं सुखम् ॥३०८॥
(३०९) (अव० )-१आर्यदेशजातिकुलविभवरूपसौभाग्यादिकां सम्यक्त्वादिगुणसम्पदं च ॥३०९॥
(३१०) (अव०)-मनुष्येषु ॥३१०॥