________________
१८८
प्रशमरतिप्रकरणम्
प्रशमरतिनित्यतृषितो जिन-गुरु-साधुजनवन्दनाभिरतः । संलेखनां च काले योगेनाराध्य सुविशुद्धाम् ॥३०७॥
तेषामायतनमाश्रयः २देवकुलानि। प्रकृष्टानि स्थापनानि प्रस्थापनानि । महत्या विभूत्या वादित्रनृत्यतालानुचरस्वजनपरिवारादिकया रेस्थापनं प्रतिष्ठेति तानि कृत्वा शक्तितः प्रयत्नवान् यथा यथा प्रवचनोद्भावना भवति तथा कृत्वेति । ५पूजाः सपर्याः । गन्धाः विशिष्टद्रव्यसंयोगाः । माल्यं पुष्पम् । अधिवासः पटवासादिः । धूपः सुरभिद्रव्यसंयोगजः । प्रदीपदानम् । आदिग्रहणादुपलेपनसंमार्जनखण्डस्फुटितसंस्करणचित्रकर्माणि चेति ॥३०६।।
(३०७) टीका-प्रशमरतीइत्यादि । प्रशमः कषायादिजयस्तत्र रतिः प्रीतिस्तस्यां प्रशमरतौ नित्यमेव तृषितः साभिलाषः "कदा साधुत्वमवाप्य कषायरिपुं जेष्यामीति" । जिनानां तीर्थकृतां गुरूणामाचार्योपाध्यायादीनां, साधुजनस्य साधुलोकस्य च वन्दने नमस्करणे प्रतिक्षणमभिरतः। मारणान्तिकसंलेखनाकाले प्रत्यासन्ने जीवितच्छेदे, द्रव्यतो भावतश्च संलिख्य शरीरं कषायादींश्च । योगेनेति ध्यानेनाराध्याभिमुखीकृत्य धर्मेणाज्ञाविचयादिना । सुष्ठ बाढं विशुद्धां निर्मलां जीवितमरणाशंसादिदोषरहितां कृत्वेति सम्बन्ध्य । एवं गृहे स्थितो द्वादशविधं श्रावकधर्ममनुपाल्य पञ्चानुव्रतानि स्थूलप्राणातिपातविरत्यादीनि इच्छापरिमाणान्तानि, त्रीणि गुणव्रतानि दिक्परिमाणमुपभोगपरिभोगपरिमाणमनर्थदण्डविरतिश्च, शिक्षाव्रतानि चत्वारि सामायिकं देशावकाशिकं पौषधोपवासोऽतिथिसंविभागश्चेति द्वादशप्रकारमप्यनुपाल्य संलेखनां चाराध्य ॥३०७।।
पूर्वक्रियाणां सिद्धिमेष्यतीत्युत्तरक्रियया सम्बन्धः । 'चाः समुच्चयार्थाः । कथं ?-शक्तितः प्रयतःआदरवान्, पूजाश्च कृत्वेति सम्बन्धः । कीदृशी: ?-गन्धमाल्याधिवासधूपप्रदीपाः कृतद्वन्द्वाः आद्या यासां तास्तथा ताः कर्मतापन्ना इति ॥३०६।।
(३०७) (वि० ) प्रशमेति । कीदृशः ?-प्रशमरतिनित्यतृषितः-उपशमे नित्यं पिपासितः, तथा जिनादीनां कृतद्वन्द्वानां वन्दनाभिरतः स तथा । तथा संलेखनां च-शरीरोपकरणकषायसङ्कोचरूपां च काले-अवसरे योगेन-व्यापारेणाराध्य-आसेव्य सुविशुद्धां-शास्त्रोक्तामिति ॥३०७।।
(३०७) ( अव०)-उपशमे नित्यं पिपासितः काले जीवितच्छेदे । संलेखनां शरीरोपकरणकषायसङ्कोचरूपां योगेन व्यापारेण आराध्य विशुद्धां शास्त्रोक्तामिति ॥३०७॥