________________
१९४
प्रशमरतिप्रकरणम्
इति श्रीबृहद्गच्छीयश्रीहरिभद्रसूरिविरचिता प्रशमरतिवृत्तिः समाप्ता ॥
संवत् १८२३ वर्षे पौसमासि पूर्णिमायां १५ कर्मवाट्यां परमगुरुभट्टारक श्री १०८ श्रीविजयदेवसूरीश्वरशिष्यपण्डित शिरोरत्नपण्डित श्री १९ श्रीवरसिंगर्षिगणिविनेय-सकलतार्किकशिरोरत्नायमानप्राज्ञश्री १९ श्रीलब्धिविजयगणि-शिष्य-लुंपाकादि-निखिल-मत-वनगहन-धूमध्वजायमान-सकल-मण्डलाखण्डलायमान-पण्डितश्रीरत्नविजयगणिशिष्यसकलविद्वज्जन-सभा-भामिनी-भाल-स्थल-तिलकायमान पण्डितश्रीविवेकविजयगणिचरणाम्भोजचञ्चरीकतुल्येन पण्डितश्रीअमृतविजयेन प्रशमरतिवृत्तिलिपीकृता स्वयं श्रीमुणिसुव्वयप्रसादात् । शुभम् । ॥ भवन्तु श्रेयःश्रेणयः ।
१. कै. (त्रिपाठ) प्रतेः पुष्पिका मूलस्य पुष्पिकाः-प्रशमस्थितेन येनेयं कृता वैराग्यपद्धतिः ।
___तस्मै वाचकमुख्याय नमो भूतार्थभाषिणे ॥३७५।।
इति प्रशमरतिप्रकरणम् । उमास्वातिवाचकविरचितम् । श्रीः । जयक्षेमगणिना लिखितम् ॥ शुभं भवतु ॥ ठ ॥
वृत्तेः पुष्पिका:- संवत १६४७ वर्षे पोषमासे कृष्णपक्षे चतुर्दश्यां तिथौ रविवासरे मूलनक्षत्रे श्रीनागपुरमध्ये लिपीकृतेयं श्रीप्रशमरतिप्रकरणवृत्तिः ॥ छ ॥ छ । श्री ॥