________________
१५२
प्रशमरतिप्रकरणम्
स्वशरीरेऽपि न रज्यति शत्रावपि न प्रदोषमुपयाति । रोगजरामरणभयैरव्यथितो यः स नित्यसुखी ॥२४०॥ धर्मध्यानाभिरतस्त्रिदण्डविरतस्त्रिगुप्तिगुप्तात्मा । सुखमास्ते निर्द्वन्द्वो जितेन्द्रियपरीषहकषायः ॥२४१॥
परिणामः इष्टानिष्टता, शब्दादिविषयपरिणामाच्च यत्सुखं तदनित्यम्, विषयसन्निधौ भवति तदभावे च न भवतीत्यनित्यम् । अपि च दु:खमेवेदं वैषयिकं सुखं पामनपुरुषकण्डूतिसुखवत्, दुःखमेवायं सुखाभिमानोऽल्पचेतसाम् एवं विज्ञाय ज्ञात्वा च रागद्वेषात्मकानि रागद्वेषपरिणतिजातानि रागद्वेषानुविद्धानि दुःखानि संसारे करोतीदम् ॥२३९॥
(२४०) टीका-स्वशरीर इत्यादि । निजशरीरकेऽपि न रज्यति न रागं करोति स्नेहमित्यर्थः । शत्रावपि न प्रदोषं प्रद्वेषं करोति । रोगो ज्वरादिः, जरा वयोहानिः, प्राणनाशो मरणम्, भयमिहलोकादिसप्तप्रकारम्, अपिशब्दश्चार्थे, एभिश्च न व्यथितः सम्पतद्भिरपि न बाधितः, एभ्यो वा ३न भीतो यः स नित्यमेव सुखीति ॥२४०॥
__ (२४१) टीका-धर्मेत्यादि । धर्मादनपेतं धर्म्य ध्यानमाज्ञाविचयादि, तत्राभिरतस्तत्परस्तत्रासक्तः। मनोवाक्कायाख्याद्दण्डत्याद्विरतः । अनागमिको मनोवाक्कायव्यापारो दण्ड: । तिस्रो गुप्तयस्ताभिर्गुप्तात्मा । मौनी निरवद्यभाषी । कायोत्सर्गी प्रवचनोक्तविधिगामी
अनित्यम्-अन्यथाभवनरूपं । कथम् ?-एते विषयाः शुभा अशुभभावं यान्ति, अशुभाः शुभभावं यान्तीति । दु:ख-दुःखकारणमेव च ज्ञात्वा-बुद्ध्वा । ततो ज्ञात्वा च रागदोषात्मकानि दुःखानि । क्व ?-संसारे ॥२३९॥
(२४०) (वि०) यत एवमतः सुसाधुः किम् ? स्वशरीरेऽपीति । स्वशरीरेऽपि न रज्यतिरागं न करोति । तथा शत्रावपि-अपकारकेऽपि न प्रदोषं-प्रद्वेषमुपयाति-सामीप्येन गच्छति । तथा अव्यथितः-अपीडितः । कैरित्याह-रोगादिभिः । य एवंविधः स नित्यसुखीति ॥२४०।।
(२४१) (वि०) धर्मेति । तथा धर्मध्यानेऽभिरतः । तथा त्रिदण्डविरतो-दुष्टमनोवाक्कायत्रयान्निवृत्तः । तथा त्रिगुप्तिगुप्तात्मा-मनोगुप्त्यादिभिः रक्षितजीवः । सुखमास्ते-एवंविधः सुखेन
(२४०) (अव०)-प्रदोषं-प्रद्वेषम्, अव्यथितोऽपीडितः ॥२४०॥
(२४१) (अव० )-मौनी-निरवद्यभाषी, एकाकी निष्कलहो वा, वशे स्थापितानि, परीषहाः सम्यक् सह्यन्ते, कषायाणामुदयो निरुद्धः ॥२४१॥