________________
प्रशमरतिप्रकरणम्
विषयसुखनिरभिलाषः प्रशमगुणगणाभ्यलङ्कृतः साधुः । द्योतयति यथा सर्वाण्यादित्यः सर्वतेजांसि ॥२४२॥ सम्यगृष्टिर्ज्ञानी विरतितपोबलयुतोऽप्यनुपशान्तः ।
तं न लभते गुणं यं प्रशमगुणमुपाश्रितो लभते ॥२४३॥
१५३
वा धर्मध्यायी निरुद्धार्तरौद्राध्यवसायः सुखमास्ते निराबाधमशेषक्रियानुष्ठानं कुर्वन् । निर्द्वन्द्वः निर्गतसकलोपद्रवः एकाकी निष्कलहो वा । जितानीन्द्रियाणि वशे स्थापितानि । परीषहाः सम्यक् सह्यन्ते । कषायाणामुदयो निरुद्ध उदितो वा विफलीकृतः । स एवंविधः सुखमास्ते
॥२४१॥
(२४२) टीका-विषयेति । शब्दादिजनिते विषयसुखे निर्गताभिलाषो निर्गतेच्छः । प्रशमगुणा ये स्वाध्यायसन्तोषादयस्तेषां गणः समूहस्तेनालङ्कृतो विभूषितः । साधुर्भा इव द्योतयति अभिभवति तारकादिप्रभां स्वप्रभया तिरोभाव्य स्वतेजसा एव प्रकाशयति सर्वाणीत्यशेषाणि तेजांस्यभिभवतीत्यर्थः । तद्वत्साधुरुक्तगुणयुक्तः सर्वतेजांसि देवमनुष्यादीनामभिभूय प्रकाशते स्वतेजसेति ॥२४२॥
(२४३) टीका - सम्यग्दृष्टिरित्यादि । सम्यग्दर्शनसम्पन्नः सम्यग्ज्ञानसम्पन्नश्च । विरतितपोबलयुतोऽपि विरत्या मूलोत्तरगुणेन युक्तोऽपि तपोबलेन च सम्पन्नः । अनुपशान्तः क्रोधादिकषायोदयालब्धप्रशमः । तं गुणं न लभते कषायोदये वर्तमानः, यं गुणं प्रशमगुणसमाश्रितः
तिष्ठति । निर्द्वन्द्वो-निर्गताशेषकलहः । तथा जितेन्द्रिय परीषहकषायः इति सुगममिति ॥ २४९ ॥
(२४२) (वि०) विषय इति । विषयसुखनिरभिलाषः - शब्दादिसङ्गनि:स्पृहः प्रशमगुणगणाभ्यलङ्कृतो' साधुर्यथा द्योतयति न तथा सर्वाण्यादित्यतेजांसि - देवप्रभाः । किलैवंविधसाधूनां केवलावधयः सम्भाव्यन्ते, अतः परैरनभिभवनीयं च तेजः सम्भाव्यते इति ॥२४२॥ इति चरणाधिकारः ॥१६॥
(२४२) (अव० ) - १ प्रशमे स्वाध्यायादयः तेषां समूहस्तेन विभूषितोऽभिभवति देवमनुष्यादीनां नारकादीनां च ॥२४२॥