________________
प्रशमरतिप्रकरणम्
१५१
स्वर्गसुखानि परोक्षाण्यत्यन्तपरोक्षमेव मोक्षसुखम् । प्रत्यक्षं प्रशमसुखं न परवशं न च व्ययप्राप्तम् ॥२३७॥ निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥२३८॥ शब्दादिविषयपरिणाममनित्यं दःखमेव च ज्ञात्वा ।
ज्ञात्वा च रागद्वेषात्मकानि दुःखानि संसारे ॥२३९॥
(२३७) टीका-अपि च-स्वर्गेत्यादि । स्वर्गोऽपवर्गस्तत्र च यत्सुखम् । तद्द्वयमपि परोक्षमागमगम्यम् । मोक्षसुखमत्यन्तपरोक्षमेव । अत्यन्तमिति सुतरां परोक्षम् । स्वर्गसुखस्य केनचिल्लेशेन किञ्चिदिह उपमानं स्यात्, न तु मोक्षसुखस्येति, अतोऽत्यन्तपरोक्षम् । सर्वप्रमाणज्येष्ठेन प्रत्यक्षेण स्वात्मवर्तिना परिच्छिद्यमानं प्रशमसुखम्, न च पराधीनं स्वायत्तमेव, नापि व्ययप्राप्तं, स्वाधीनत्वादेव, यतस्तन्न व्येति न विगच्छति । वैषयिकं तु सुखं परवशं विषयाधीनं, विषयाभावे तु न भवतीति ॥२३७।।
(२३८) टीका-निर्जितेत्यादि । न्यक्कृतगर्वकामानां स्वस्थीभूतचेतसां शान्तानां वागादिविकाररहितानाम् । वाग्विकारो हिंस्रपरुषानृतादिः, कायविकारो धावनवल्गनादिः, मनोविकारोऽभिद्रोहाभिमानेादिः, एभिर्विरहितानाम् । विनिवृत्ता परविषया आशा येषां ते विनिवृत्तपराशाः । ‘परस्मादिदं लभ्यं धनधान्यरजतादि, केवलं 'परकृतभिक्षामात्रोपजीविनः साऽपि यदि लभ्यते प्रवचनोक्तेन विधिना ततः साधु, ज्ञानचारित्रोपकारित्वात्, न लभ्यते चेत्ततः शुद्धाशयस्य निर्जरैवेति' । एवंविधानां यतीनामिहैव मोक्षः । मोक्षसुखमुपमानमुपमेयं प्रशमसुखमिति ॥२३८॥
(२३९) टीका-शब्दादीत्यादि । शब्दादयो विषयाः १शब्दरूपगन्धरसस्पर्शास्तेषां
(२३७) (वि०) किमिति प्रशमसुखमेव प्रशस्यते इत्याह-स्वर्गेति । स्पष्टा ॥२३७।। (२३८) निर्जितेति । सुबोधमेव ॥२३८॥ (२३९) (वि०) 'शब्दादीनां विषयाणां परिणामस्तं ज्ञात्वेति सम्बन्धः । कीदृशं ?(२३७) (अव०)-न केनापि व्ययं प्राप्तं अपि तु बाधितम् ॥२३७॥ (२३८) (अव०) विनिवृत्ता परस्मिन्नाशा येषाम् ॥२३८॥
(२३९) (अव०)-शब्दादीनां विषयाणां परिणामनित्यमन्यथाभवनरूपं दुःखहेतुमेव च सम्प्रधार्य । संसारे दुःखान्येव रागदोषात्मकानि ॥२३९॥