________________
१५०
प्रशमरतिप्रकरणम्
स्वगुणाभ्यासरतमतेः परवृत्तान्तान्धमूकबधिरस्य । मदमदनमोहमत्सररोषविषादैरधृष्यस्य ॥२३५॥ प्रशमाव्याबाधसुखाभिकाक्षिणः सुस्थितस्य सद्धर्मे ।
तस्य किमौपम्यं स्यात् सदेवमनुजेऽपि लोकेऽस्मिन् ॥२३६॥
(२३५) टीका-तमेव यत्नं प्रपञ्चेन दर्शयति-स्वगुणाभ्यासेत्यादि । स्वगुणाः सम्यक्त्वज्ञानचरणाख्याः साधुगुणास्तेष्वभ्यास आवृत्त्यनुष्ठानं तत्र रता सक्ता मतिर्यस्यासौ स्वगुणाभ्यासरतमतिः । स हि परवृत्तान्ते परवार्तायां परचेष्टितेऽन्धः, न पश्यति परदोषान् गुणान् वा, स्वगुणेष्वेव सम्यक्त्वादिषु व्यग्रत्वात् । न च परदोषान् गुणान् वा 'उद्घट्टयति मूक इव तदुद्घट्टने न वाऽन्येन परगुणदोषानुद्घाट्यमानान् बधिर इव ३शृणोति । मदो गर्वः । मदनः कामः । मोहो हास्यरत्यादिः । मत्सरश्चित्तस्थ एव कोपो न बहि: प्रकट: नो क्रोष्टारमाहन्तारं वा प्रतिभिनत्ति । रोषस्तु रक्तनयनाक्रोशताडनादि: बहिर्लिङ्गः । विषादः स्वजनादिव्यापत्तावुपकरणादिनाशे वा । एभिर्मदादिभिरधृष्यस्यानभिभूतस्य ॥२३५।।
(२३६) टीका-प्रशमेत्यादि । प्रशमसुखाभिकाक्षिणः अव्याबाधमोक्षसुखाभिकाक्षिणश्च । सद्धर्मे मूलोत्तरगुणलक्षणे । सुस्थितस्य निश्चलस्य । तस्यैवंविधस्य साधोः केनोपमानं क्रियेत ? । अस्मिन् लोके सदेवमानुष्ये३, नास्त्येव सदेवेषु मनुष्येषु वा प्रशमसुखतुल्यं सुखं, दूरत एव मोक्षसुखमिति ॥२३६।।
(२३५) (वि० ) गुणवतो यदिहैव स्यात्तदायद्वयेनाह-स्वगुणेति । प्रशमेति । एवंविधसाधोरिहैव किमौपम्यं स्यादिति द्वितीयार्यायां सम्बन्धः, कीदृशस्य?-स्वगुणानां-ज्ञानादीनामभ्यासस्तत्र रता मतिर्यस्य स तथा तस्य । परवृत्तान्तेषु-परतप्तिषु अन्ध इव मूक इव बधिर इव यस्तस्य । तथा अधृष्यस्य-अधर्षणीयस्य । कैः?-मदादिभिः कृतद्वन्द्वैः षड्भिर्दोषैः सुगमार्थेरिति ।।२३५।।
(२३६) (वि०) प्रशमेत्यादि । प्रशम एवाव्याबाधसुखं-सकलबाधारहितं शर्म तस्याभिकाक्षिणः । पुनः किंविशिष्टस्य ? सुस्थितस्य-सदा स्थितिमतः । क्व ?-सद्धर्मे-सदाचारे । तस्य किमौपम्यं ?-किं साधर्म्यं स्यात्-भवेत् । क्व?-सदेवमनुजेऽपि ससुरमयेऽपि लोकेऽस्मिन् इति ।।२३६।।
(२३५) (अव०) यत्नमेव प्रपञ्चयति-गुणानां-ज्ञानादीनाम् परतप्तिषु अधृष्यस्याधर्षणीयस्य । मत्सरश्चित्तस्थ एव कोपः ॥२३५॥
(२३६) (अव०)-प्रशम एव निराबाधसुखं सदाचारे रतस्य साधोरिति । तस्य किं साधर्म्य सुरासुरनरलोकेऽस्मिन् ? ॥२३६॥