________________
प्रशमरतिप्रकरणम्
१४९
आराधनाश्च तेषां तिस्त्रस्तु जघन्यमध्यमोत्कृष्टाः । जन्मभिरष्टव्येकैः सिध्यन्त्याराधकास्तासाम् ॥२३३॥ तासामाराधनतत्परेण तेष्वेव भवति यतितव्यम् । यतिना तत्परजिनभक्त्युपग्रहसमाधिकरणेन ॥२३४॥
(२३३) टीका-आराधनाश्चेत्यादि । तेषां सम्यक्त्वादीनामाराधनास्तिस्रो जघन्यमध्यमोत्कृष्टभेदेन सम्भवन्ति । तत्र जघन्याष्टभिर्जन्मभिर्देवमनुष्येषूपजातस्य भवति, अष्टाभिस्तेषां भवैरन्तं याति सिद्धिं प्राप्नोतीत्यर्थः । मध्यमा त्वाराधना जन्मत्रयेण मनुष्यजन्मपूर्विका । उत्कृष्टा त्वाराधना एकेनैव भवेन मरुदेव्या इव भवति । एवमाराधकास्तान्याराधयन्तीति ॥२३३।।
(२३४) टीका-तासामाराधनेत्यादि । तासां सम्यक्त्वज्ञानचारित्रसम्पदाम् । आराधनतत्परेण तत्रैव व्यग्रेण । तेष्वेव सम्यक्त्वादिषु यतितव्यं भवति । यतिना साधुना । तत्परजिनभक्त्युपग्रहसमाधिकरणेन । तत्पर इति सत्त्वादिपरेण जिनभक्तौ समुद्यतेन भगवतामर्हतां यथाकालं वन्दनगुणोत्कीर्तनपरेण उपग्रहो भगवद्बिम्बप्रतिष्ठाफलकथनादि । अथवा साधूनामुपग्रहो वस्त्रपात्रभक्तपानादिना समाध्युत्पादनेन च साधूनाराधयति प्रयत्नमेव "कुर्वन्ति ॥२३४॥
(२३३) (वि०) आराधना इति । आराधनाश्च-निष्पादनाश्च तेषां-दर्शनादीनां । कियत्यः?-तिस्रस्तु । केन रूपेण?-जघन्यमध्यमोत्कृष्टा वर्तन्ते । कैः ?-जन्मभिः । कियत्सङ्ख्यैः ?-अष्टव्येकैः । ततः किं ?-सिध्यन्ति-मोक्षं यान्ति, जघन्येनाष्टभिः मध्यमेन त्रिभिः उत्कृष्टेनैकेन । क एते ?-आराधकाः जीवाः । कासां ?-तासां-ज्ञानादिसम्पदामिति ॥२३३।।
(२३४) (वि० ) तदाराधकेन यादृशेन भाव्यं तदाह-तासामिति । तासां-ज्ञानादिसम्पदाम् आराधनतत्परेण-तत्सेवादत्तावधानेन तेष्वेव-सम्यक्त्वादिष्वेव भवति यतितव्यम् । केन?-यतिनासाधुना कळ । केन कारणभूतेन ?-तत्परजिनभक्त्युपग्रहसमाधिकरणेन-तत्परा-ज्ञानाद्याराधनपरायणाः सामर्थ्यात् साध्वादयस्ते च जिनाश्च ते तथा तेषु भक्तिश्च-बहुमान उपग्रहश्चभक्तपानदानादिरूपः समाधिश्च-स्वास्थ्यं तेषां करणं-क्रिया तेनेति ।।२३४।।
(२३३) (अव०)-सम्यक्त्वादीनाम् ॥२३३॥
( २३४) (अव०)-सम्यक्त्वादिसम्पदां तत्परेण-व्यग्रेण । तेष्वेव-सम्यक्त्वादिषु । तत्परेषु साधुषु जिनेषु भक्तिरान्तरा प्रीतिः । उपग्रहस्तदुचितान्नपानशयनासनादिप्रदानरूपः, समाधिः= स्वास्थ्यं स्वपरयोः । एतेषां करणेन ॥२३४॥