________________
१४८
पूर्वद्वयसम्पद्यपि तेषां भजनीयमुत्तरं भवति । पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः ॥२३१॥
धर्मावश्यक योगेषु भावितात्मा प्रमादपरिवर्जी । सम्यक्त्वज्ञानचारित्राणामाराधको भवति ॥२३२॥
प्रशमरतिप्रकरणम्
मोक्षसाधनम्, एकतराभावेऽप्यसाधनमिति । एताः सम्यक्त्वादिसम्पदः परस्परापेक्षा एव मोक्षं साधयन्ति, त्रिफलाव्यपदेशवत् । एकतराभावे तु साधनाभावः, न मोक्षं साधयन्तीत्यर्थः
॥२३०॥
(२३१) टीका - पूर्वद्वयेत्यादि । सम्यग्दर्शनसम्यग्ज्ञानयोः सतोरपि चारित्रसम्पत् कदाचिद्भवति कदाचिन्नेति भजनीयमुत्तरं चारित्रमित्यर्थः । यदा पुनश्चरणं लब्धं तदा पूर्वद्वयलाभो नियमेनैव भवति । न हि सम्यग्दर्शनज्ञानाभ्यां विना चरणसम्भवः, तत्पूर्वकत्वाच्चारित्रस्य । तस्माच्चरणलाभाविनाभूते सम्यक्त्वसम्यग्ज्ञाने ॥२३१॥
(२३२) टीका-कथं पुनः सम्यक्त्वादिसाधनमाराध्यमविकलमनुष्ठेयमित्याहधर्मावश्यकेत्यादि । धर्मे दशप्रकार क्षमादिके, आवश्यकेषु तानि चावश्यकानिप्रतिक्रमणालोचनस्वाध्यायप्रत्युपेक्षणप्रमार्जननिर्गमप्रवेशादीन्यवश्यकरणीयानि तेषु । भावितात्मा श्राद्धः समस्तप्रमादस्थानपरिहारी सम्यक्त्वादिसाधनानामाराधको भवति परिसमापयिता भवतीत्यर्थः ॥२३२॥
तासु- सम्पत्सु मध्ये एकतरस्यां - सम्यग्दर्शनादिसम्पदः अन्यतरस्या अभावे-असत्तायाम् । अपिः पूरणे । मोक्षमार्गोऽपि - मुक्तिप्रापकोऽपि असिद्धिकर:- मोक्षप्राप्तेरकर्ता, देवलोकादिप्राप्तिकारी भवत्येव विकलोऽपि इति गम्यम् ||२३०||
(२३१ ) (वि०) पूर्वेति । पूर्वद्वयसम्पद्यपि - दर्शनज्ञानसम्पत्तावपि तेषां तद्वतां भजनीयंविकल्पनीयं भवति, कदाचिदस्ति कदाचिन्नास्ति । किं तत् ? उत्तरं चारित्रं, अविरतदेशविरतानामपि सद्भावात्, अन्यथा तेषामभाव एव स्यात् । उत्तरलाभे पुनः- चारित्रलाभे तु पूर्वद्वयलाभ:-'दर्शनज्ञानसद्भावः सिद्धो भवति-निश्चयेन जायत एव, चारित्रिणां सम्यक्त्वज्ञाने नियते एव भवत इति ॥२३१॥
(२३२) (वि०) धर्मेति । प्रमादपरिवर्जी जीवो ज्ञानादीनामाराधको भवति । कीदृश: ? - भावितात्मा । केषु ?-धर्मावश्यकयोगेषु स्पष्टार्थमेवेति ॥२३२॥
( २३१ ) ( अव० )—– चारित्रे, दर्शनज्ञानचारित्रलाभे ॥२३१॥
(२३२) (अव० )–धर्मो दशविधः । आवश्यकानि=प्रतिक्रमणालोचनादीनि ॥२३२॥