________________
प्रशमरतिप्रकरणम्
१४७
इत्येतत् पञ्चविधं चारित्रं मोक्षसाधनं प्रवरम् । नैकैरनुयोगनयप्रमाणमार्गः समनुगम्यम् ॥२२९॥ सम्यक्त्वज्ञानचारित्रसम्पदः साधनानि मोक्षस्य । तास्वेकतराभावेऽपि मोक्षमार्गोऽप्यसिद्धिकरः ॥२३०॥
वर्षा
(२२९) टीका-इत्येतत्पञ्चेत्यादि । पञ्चविधं सामायिकादियथाख्यातपर्यन्तम् अष्टविधकर्मचयरिक्तीकरणाच्चारित्रम् । मोक्षसाधनं सम्यग्ज्ञानपूर्वकं क्रियानुष्ठानम् । प्रवरं प्रधानम्। अनेकानुयोगद्वारमार्गेण, अनेकेन च नयमार्गेण नैगमादिना, तथा प्रमाणमार्गेण प्रत्यक्षपरोक्षगोचरेण समनुगम्यं समधिगम्यं ज्ञेयमित्यर्थः ॥२२९॥
(२३०) टीका-सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रं च किं समुदितमेव साधनमाहोश्चिदेकै कमपीत्याशङ्क्याह-सम्यक्त्वज्ञानेत्यादि । समुदितमेव त्रितयमविकलं
परिहारविशुद्धितपःस्थापना ऋतुः । जघन्यम् । मध्यमम् । उत्कृष्टम् ग्रीष्मः चतुर्थभक्तः षष्ठभक्तः अष्टमभक्तः । (त्रय उपवासाः) शिशिरः षष्ठभक्तः
अष्टमभक्तः दशमभक्तः । (चत्वार उपवासाः) अष्टमभक्तः । दशमभक्तः । द्वादशभक्तः । (पञ्चोपवासाः)
(सर्वत्र पारणे आचाम्लम्) (२२९) (वि०) इति-एतेन प्रकारेण एतत्-समीपवति पञ्चविधं चारित्रं मोक्षसाधनं प्रवरमिति प्रतीतम् । नैकैरित्यसमासोऽयं, अनेकैः-बहुभिः प्रकारैः । 'किंरूपैः ?-अनुयोगाश्चअनुयोगद्वाराणि उपक्रमादीनि, किं कतिविधमित्यादीनि वा, नयाश्च-नैगमादयः, प्रमाणानि चप्रत्यक्षादीनि तानि तथा 'मार्गास्तैः समनुगम्यं-ज्ञेयमिति ।।२२९॥
(२३०) (वि०) एतत् सम्यग्दर्शनादित्रयं मोक्षसाधकमिति कथयति-सम्यक्त्वेति । सम्यग्दर्शनादिसम्पदः-सम्पत्तयः, किं ?-साधनानि-जनकानि वर्तन्ते, कस्य ?-मोक्षस्य-मुक्तेः ।
(२२९) (अव०)-अनेकैर्बहुप्रकारैः अनुयोगैः, किं कतिविधं कस्येत्यादिभिर्नयैनँगमादिभिः१, प्रमाणैः प्रत्यक्षादिभिः समनुगम्यं ज्ञेयम् ॥२२९॥
(२३०) (अव०)-एकतरस्याः सम्यग्दर्शनादिसम्पदः अभावेऽपि । अपिः पूरणे । मोक्षमार्गोऽपि मुक्तिप्रापकोऽपि न सिद्धिकरः, त्रिफलाव्यपदेशवत् ॥२३०॥