________________
१४६
प्रशमरतिप्रकरणम्
सामायिकमित्याद्यं छेदोपस्थापनं द्वितीयं तु ।
परिहारविशुद्धिकं सूक्ष्मसम्परायं यथाख्यातम् ॥२२८॥ (२२८) टीका-१सम्यग्दर्शनसम्यग्ज्ञाने निरूप्य चारित्रप्रतिपादनार्थमाहसामायिकमित्यादि । अरक्तद्विष्टः समः तस्य आयो लाभ उपचयो ज्ञानादेः समायः स प्रयोजनमस्येति सामायिकम्। प्रथमपश्चिमतीर्थङ्करयोरित्वरं सामायिकं, मध्यमतीर्थङ्कराणां यावज्जीविकम् । पूर्वपर्यायच्छेदादुत्तरपर्यायोपस्थापनं छेदोपस्थापनं, प्रथमपश्चिमतीर्थङ्करयोरेव तीर्थे । परिहारविशुद्धिकं परिहारेण आचाम्लवर्जिताहारपरिहारेण तत्परित्यागेन विशुद्धिः कर्म यत्र तत्परिहारविशुद्धिकम्, ५अधीतनवमपूर्वतृतीयाचारवस्तूनां गच्छनिर्गतानां पारिहारिक७अनुपारिहारिक-कल्पस्थितित्वेन त्रिधा स्थितानां ग्रीष्मशिशिरवर्षासु चतुर्थादिद्वादशान्तभक्तभोजिनामाचाम्लेनैव परिहारिकाणाम् अनुपरिहारिकाणां तु प्रतिदिनाचाम्लभोजिनां कल्पस्थितस्य च एकैकस्य वर्गस्य षण्मासावधिकं तपोऽनुष्ठानं परिहारविशुद्धिकमुच्यते । तथा सूक्ष्मसम्परायं सम्परायः कषायो यस्य सूक्ष्मो लोभाख्यस्तत्सूक्ष्मसम्परायं दशमगुणस्थानवर्तिनश्चारित्रं भवति । १°यथाख्यातं तूपशान्तकषायस्य क्षीणमोहस्य११ च चैकादशे द्वादशे च गुणस्थाने वर्तमानस्य भवति । यथा भगवद्भिराख्यातं येन प्रकारेण कथितं कथं १२चाख्यातमकषायस्य चारित्रमित्येवमाख्यातम् ॥२२८।।
(२२८) (वि०) चारित्रमधुना-सामायिकमिति । सामायिकं-समशत्रुमित्रभावं प्रथमचरमतीर्थकरयोरित्वरं मध्यमविदेहजिनानां च यावज्जीवमित्येवंरूपमाद्यं, १ पूर्वपर्यायच्छेदादुत्तरपर्यायोपस्थापनं द्वितीयं २ 'पुनराद्यन्तजिनतीर्थयोः । परिहारविशुद्धिकं-परिहारेणआचाम्लवर्जिताहारेण विशुद्धिः-कर्मक्षयो यत्र तत्तथा, तत्केषां भवति ?-अधीतनवमपूर्वतृतीयाचारवस्तुनां साधूनां गच्छविनिर्गतानां परिहारिककल्पस्थितत्वेन त्रिधास्थितानां ग्रीष्मशिशिरवर्षासु चतुर्थादिद्वादशान्तभक्तभोजिनाम्, “आचाम्लेनैव परिहारिकाणां, तथा अनुपहारिकाणां कल्पस्थितस्य च प्रतिदिनमाचाम्लभोजनम्, एकैकस्य एकैकस्य वर्गस्य षण्मासावधिकतपोऽनुष्ठानमिति, “पारिहारिकं स्थापना । इदं चाष्टादशभिर्मासैनिष्पद्यते, ततो गच्छमनुप्रविशन्ति तदेव वा पुनस्तपः कुर्वन्ति ३, सूक्ष्मः-अत्यन्तकिट्टीकृतः सम्परायो-लोभो यत्र तत्, सूक्ष्मसम्परायगुणस्थानवत्येव ४ यथाख्यातम्-अकषायम् उपशान्तादिगुणस्थान चतुष्टय इति ।।२२८।।
(२२८) (अव०)-समो-रागद्वेषविकलस्तस्य आयो-लाभस्तत्र भवं सामायिकम् । प्राक्तनपर्यायच्छेद उत्तरपर्यायस्थापनम् । परिहरणं-परिहारस्तेन विशुद्धम् । सूक्ष्मोऽत्यन्तकिट्टीकृतः सम्परायो-लोभो यत्र' सूक्ष्मसम्परायगुणस्थानवर्तिनः । अकषायं यथाख्यातम् ॥२२८॥