________________
प्रशमरतिप्रकरणम्
सम्यग्दृष्टेर्ज्ञानं सम्यग्ज्ञानमिति नियमतः सिद्धम् । आद्यत्रयमज्ञानमपि भवति मिथ्यात्वसंयुक्तम् ॥२२७॥
१४५
त्कृष्टादिभेदेनानेकधा रूपिद्रव्यनिबन्धनः । मनःपर्यायज्ञानमपि ऋजुविपुलमत्यादिभेदेनावधिज्ञानविषयीकृतद्रव्यानन्तभागनिबन्धनं विशुद्धतरं चेति । एवं विस्तराधिगमः । आदिग्रहणात् क्षेत्रकालविभागोऽपि द्रष्टव्यः । अथैतानि पञ्च ज्ञानान्येकस्मिन्नात्मनि युगपत् कियन्ति ३सम्भवन्तीत्याह-एकादीनीत्यादि । एकं मतिज्ञानं जघन्यतः श्रुतज्ञानमक्षरात्मकं न सर्वत्र सम्भवतीत्येवमुक्तमेकं मतिज्ञानमिति । अन्यथा भावश्रुतं सर्वजीवानामागमेऽभिहितम् । तथा कदाचिन्मतिश्रुते द्वे भवतः, कदाचित्त्रीणि "मति श्रुतावधिज्ञानानि, 'कदाचिन्मतिश्रुतावधिमनःपर्यायज्ञानानीति, न जातुचित्पञ्चापि युगपत्सम्भवन्तीति ॥ २२६॥
( २२७) टीका- सम्यग्ज्ञानमिथ्याज्ञानयोः किंकृतो भेद ? इत्याह- सम्यग्दृष्टेरिति । सम्यग्दृष्टिस्तत्त्वार्थश्रद्धानलक्षणसम्यग्दर्शनसम्पन्नः शङ्कादिशल्यरहितस्तस्य यज्ज्ञानं तत्सम्यग्ज्ञानम्, यथावस्थितपदार्थपरिच्छेदित्वात् । नियमेनैवाव्यभिचारि सिद्धम् । आद्यत्रयमज्ञानमपि । मिथ्यादर्शनयोगात् मतिश्रुतावधयः सदसदविशेषपरिज्ञानाद्यदृच्छातो वाऽसदुपलब्धेरुन्मत्तवत् ज्ञानफलाभावाच्च मिथ्यादृष्टेरज्ञानमेव ॥२२७॥
समासस्त्वेवं-उत्तरभेदाश्च विषयाश्च ते आदिर्येषां ते तथा तैरुत्तरभेदविषयादिभिः करणभूतैद्वारैर्भवतिजायते विस्तराधिगमो-विस्तरपरिच्छेदः । तथा एकद्वित्रिचतुः सङ्ख्याभिः एकस्मिन् जीवे भाज्यानि तु-विकल्पनीयानि पुनः आचतुर्भ्यः - चत्वारि यावत् । एकस्मिन् जीवे एकं मतिज्ञानं शास्त्रपाठश्रवणाभावात्, तत्त्वतस्तु मतिश्रुते सर्वत्र तथा द्वे मतिश्रुते, तथा त्रीणि मतिश्रुतावधिज्ञानानि, तथा चत्वारि मतिश्रुतावधिमन: पर्यायज्ञानानि, न तु पञ्च, केवलज्ञाने सत्यन्येषाम' भावादिति ॥२२६॥
(२२७) (वि०) अथ सम्यग्ज्ञानमिथ्याज्ञानयोः किंकृतो विशेषः ? - सम्यग्दृष्टेरिति । सम्यग्दृष्टेः-क्षायिकादित्रिविधसम्यग् दर्शनिनो ज्ञानं - वस्तुपरिच्छेदः सम्यग्ज्ञानमिति नियमतो-नियमेन सिद्धम् । किं तदित्याह-आद्यत्रयं - मतिश्रुतावधिरूपं अज्ञानमपि - विपरीतबोधोऽपि भवति-जायते । कीदृशं सत् ?-मिथ्यात्वसंयुक्तं-मिथ्यात्वोदयोपरक्तस्वभावं, अयमर्थः- तदेव मत्यादित्रयं विपर्यस्तमज्ञानत्रयं भण्यते, मत्यज्ञानं श्रुताज्ञानं विभङ्गमिति ॥ २२७॥ जीव- १२, भाव-१४, द्रव्याणि- १५ इत्याधिकाराश्चत्वारः ॥
(२२७ ) (अव० )-मतिश्रुतावधयः ॥२२७॥
उपयोग
T- १३,