________________
१४४
प्रशमरतिप्रकरणम्
तत्र परोक्षं द्विविधं श्रुतमाभिनिबोधिकं च विज्ञेयम् । प्रत्यक्षं चावधिमनःपर्यायौ केवलं चेति ॥२२५॥ एषामुत्तरभेदविषयादिभिर्भवति विस्तराधिगमः । एकादीन्येकस्मिन् भाज्यानि त्वाचतुर्थ्य इति ॥२२६॥
मतिश्रुते परोक्षमिन्द्रियानिन्द्रियनिमित्तमिन्द्रियद्वारकं, न पुनरात्मनः साक्षाद्भूमादग्निज्ञानवत् । इन्द्रियमनोज्ञानावरणक्षयोपशमजन्यं परोक्षमिति ॥२२४।।
(२२५) टीका-तत्र परोक्षमित्यादि । श्रुतमागमोऽतीन्द्रियविषयो यथार्थपरिच्छेदित्वात् प्रमाणम् । आभिनिबोधिकं मतिरिति तुल्यार्थौ । सा च मानसी मतिरावग्रहाद्या' । ततः परं द्विबहुद्वादशविधं श्रुतं भवति। प्रत्यक्षं पुनरवध्यादित्रयम् । मिथ्यादर्शनपरिग्रहान्मतिश्रुतावधयो विपर्ययश्चाज्ञानमपि भवतीति ॥२२५।।
(२२६) टीका-एषामुत्तरेत्यादि । एषां मत्यादिज्ञानानामुत्तरभेदविषयादिभिर्विस्तराधिगमो भवति । तत्रेन्द्रियानिन्द्रियभेदाद् द्विविधं मतिज्ञानं अवग्रहादिभेदाच्चतुर्धा, बह्वादिभेदादनेकधा । श्रुतमप्यङ्गबाह्याङ्गप्रविष्टभेदाद् द्वेधा । अङ्गबाह्यमनेकप्रकारम् आवश्यकाद्यङ्गप्रविष्टमप्याचारादिद्वादशविधम् । तत्र परोक्षमसर्वद्रव्यविषयम् । अवधिर्जघन्यमध्यमो
विपरीतार्थग्राहिप्रत्ययः २ तुशब्दात्संशयश्च एतत्त्रयमपि मिथ्यात्वमभिधीयते । ज्ञानमथ पञ्चभेदं मत्यादिभेदात्', तत् समासतः, प्रत्यक्षं च परोक्षं च वक्ष्यमाणस्वरूपमिति ॥२२४।।
(२२५) (वि०) तदेवाह-तत्रेति । तत्र-तयोर्मध्ये परोक्षं द्विविधं-द्विभेदं श्रुतं-श्रुतज्ञानं आभिनिबोधिकं-मतिज्ञानं विज्ञेयम् । प्रत्यक्षं पुनरवधिमनःपर्यायौ केवलं चेतीति-विधेति च सुबोधमिति ॥२२५॥
(२२६) (वि०) एषामिति । एषां-मत्यादिज्ञानानाम् उत्तरभेदा-अष्टाविंशतिचतुर्दशविधषड्विधद्विविधैकभेदादयो, 'विषयो-गोचरो मतिश्रुतयोः सामान्यद्रव्येष्वसर्वपर्यायेषु अवधे 'रूपिषु मनःपर्यायज्ञानस्य मनोगतद्रव्येषु केवलस्य सर्वद्रव्यपर्यायेषु, आदिशब्दात् स्वरूपलाभक्रमक्षेत्रादिपरिग्रहः,
(२२५) अव०-आभिनिबोधिकं मतिज्ञानम् ॥२२५॥
(२२६) अव०-ज्ञानानां क्रमेणाष्टाविंशतिचतुर्दशषविभेदा उत्तराः । विषयो-गोचरो मतिश्रुतयोः सामान्यतः 'द्रव्येषु सर्वपर्यायेषु । अवधे रूपिषु । मन:पर्यायं मनोगतद्रव्येषु । केवलं तु सर्वद्रव्यपर्यायेषु । आदिशब्दात्क्षेत्रकालादिपरिग्रह:३ । एकस्मिन् जीवे युगपदेकादीनि कियन्ति ? भाज्यानि भजनीयानि । चत्वारि यावत्केवलावाप्तावपरज्ञानाभावः ॥२२६॥