________________
प्रशमरतिप्रकरणम्
१४३
शिक्षागमोपदेशश्रवणान्येकार्थिकान्यधिगमस्य । एकार्थः परिणामो भवति निसर्गः स्वभावश्च ॥२२३॥ एतत्सम्यग्दर्शनमनधिगमविपर्ययौ तु मिथ्यात्वम् । ज्ञानमथ पञ्चभेदं तत् प्रत्यक्षं परोक्षं च ॥२२४॥
तद्भूतमित्यर्थः । एतदेवंप्रकारं सम्यग्दर्शनं, तत्तु द्विहेतुकं निसर्गादधिगमाद्वेति । निसर्गः स्वभावः संसारे परिभ्रमतो जीवस्यानाभोगपूर्वकं कर्म क्षपयतो ग्रन्थिस्थानप्राप्तस्यापूर्वकरणलाभात् ग्रन्थि विदारयत: शुभाध्यवसायस्य विभिन्नग्रन्थेरनिवृत्तिकरणप्राप्तौ शुभपरिणामस्य निसर्गतः स्वभावादेव तत्त्वार्थश्रद्धानलक्षणं सम्यग्दर्शनमुत्पद्यते । ५भगवत्प्रतिमादर्शनाद्वा गुप्त ६साधुदर्शनाद्वा शुभपरिणामः । निसर्गः स्वभावश्चैकार्थाः । कदाचिद् ग्रन्थौ भिन्ने शिक्षमाणस्यागमोपदेशादाकर्णयतः शृण्वतोऽधिगमसम्यग्दर्शनमुत्पद्यते ।।२२२॥
(२२३) टीका-एतदेव दर्शयति-शिक्षेत्यादि । उक्तार्था कारिका' ॥२२३॥
(२२४) टीका-एतत्सम्यग्दर्शनेत्यादि । एतद् द्विप्रकारं सम्यग्दर्शनमाधिगमिकं नैसर्गिकं च । एतद्विपरीतं मिथ्यात्वमनधिगमलक्षणं तत्त्वार्थाश्रद्धानम् । अतत्त्वबुद्धिरिति विपर्ययः । ज्ञानं मत्यादिभेदेन पञ्चधा । तत्समासतो द्विधा-प्रत्यक्षं परोक्षं च । तत्र प्रत्यक्षमवधिमन:पर्यायकेवलाख्यमक्षस्यात्मनः साक्षादिन्द्रियनिरपेक्षं क्षयोपशमजं क्षयोत्थं च ।
निसर्गाद्वा लभ्यते अधिगमावति ॥२२२।।
(२२३) (वि०) एतयोरेव व्यत्ययेन पर्यायानाह-शिक्षेति । शिक्षा-जिनधर्माभ्यासः आगमः-पाठः, उपदेशः-आप्तवचनं श्रवणम्-आकर्णनम्, एषां द्वन्द्वः । तान्येकाथिकान्यधिगमस्य, एकार्थे-एकस्मिन्नर्थे सम्यक्त्वलक्षणे यः परिणामः-परिणतिविशेषः स भवति निसर्गः, स्वभावश्चस्वस्य-आत्मनस्तेन तेन रूपेण भवनं इति भावना ॥२२३॥
(२२४) (वि०) एतन्निगमयन् विपक्षं प्रतिपादयन् उत्तरसम्बन्धं चाह-एतदिति । एतत्सम्यग्दर्शनं लेशतोऽभिहितं, यः पुनरनधिगमो-योऽनध्यवसायो १ यश्च विपर्ययो
( २२३) (अव०)-शिक्षा जिनोदितक्रियाकलापाभ्यासः पुनः पुनः ॥२२३॥
(२२४) (अव०) एतद् द्विप्रकारम् । विस्तराधिगमो-विस्तरपरिच्छेदः । विपरीतार्थग्राही प्रत्ययो विपर्ययः, समासतो द्वेधाअवधिमन:पर्यायकेवलाख्यं प्रत्यक्षम्, मतिश्रुते परोक्षे ॥२२४॥