________________
१४२
प्रशमरतिप्रकरणम्
संवृततपउपधानं तु निर्जरा कर्मसन्ततिर्बन्धः । बन्धवियोगो मोक्षस्त्विति सक्षेपान्नव पदार्थाः ॥२२१॥ एतेष्वध्यवसायो योऽर्थेषु विनिश्चयेन तत्त्वमिति ।
सम्यग्दर्शनमेतत्तु तन्निसर्गादधिगमाद्वा ॥२२२॥ १स खल्वागमपूर्वको व्यापारः, कायादीनाम् । शुद्ध: पुण्याश्रवः पुण्यस्य कारणमित्यर्थः । पापस्य आश्रवः तद्विपर्यासः अशुद्धो यः कायादिव्यापारः स्वेच्छाकृतः स पापस्याश्रव इति । सर्वेषामाश्रवाणां निरोधो गुप्तिसमितिपुरस्सरः नियमितमनोवाक्कायक्रियस्य संवरो भवति स्थगिताश्रवद्वारस्येत्यर्थः ॥२२०।।
(२२१) टीका-निर्जरणबन्धमोक्षप्रतिपादनायाह-संवृततप इत्यादि । एवं संवृताश्रवद्वारस्य तपसि यथाशक्ति घटमानस्यापूर्वकर्मप्रवेशनिरोधे सति पूर्वाजितस्य कर्मणः तपसा क्षयः निर्जरा निर्जरणम् । उपधानमिवोपधानं शिरोधरायाः सुखहेतुर्यथा तथा तपोऽपि जीवस्य सुखहेतुत्वादुपधानमुच्यते । कर्मसन्ततिर्बन्धः कर्मणां ज्ञानावरणादीनां सन्ततिरविच्छेदो बन्धः कर्मत एव कर्मोपादानमात्मन इत्यर्थः । कात्स्र्येन बन्धवियोगो मोक्षः । द्वाविंशत्युत्तरेऽपि २कर्मप्रकृतिशते नि:शेषतः क्षीणे मोक्षो भवति । इत्युक्ताः समासतो नव पदार्थाः ॥२२१॥
(२२२ ) टीका-सम्यग्दर्शनस्वरूपनिरूपणार्थमाह-एतेष्वित्यादि । एतेषु जीवादिपदार्थेषु योऽध्यवसायो विनिश्चयेन परमार्थेन, न दाक्षिण्याद्यनुवृत्त्या, तत्तत्त्वमिति सत्यं तथ्यं
पुण्यबन्धहेतुरिति । पापस्य तद्विपर्यासो-व्यत्ययः, अयमर्थः-अशुद्धो योगः पापस्याश्रव इति । वाक्कायमनोगुप्तिः-वचनादिगोपनं निराश्रवः-कर्मप्रवेशविकल: संवरस्तूक्तः-संवरो नाम पदार्थोऽभिहित इति ॥२२०॥
(२२१)(वि०) निर्जरा१बन्धरमोक्ष३पदार्थत्रयप्रतिपादनार्थमाह-संवृत इति । तपश्चोपधानं च तपउपधानं संवृतस्य तपउपधानं संवृततपउपधानं तस्मात्तु, पाठान्तरे तपउपधानमिति । किं?-निर्जराप्राक्तनकर्मशाटः, तत्र तपोऽनशनादि, उपधानं तु योगोद्वहनम् । कर्मणो नवस्य सन्ततिः स बन्ध उच्यते। तथा बन्धवियोगो मोक्षः । तु पुनरर्थः । इति सक्षेपान्नव पदार्था इति ॥२२१।।
(२२२) (वि०) एतेष्विति । एतेषु-जीवादिष्वर्थेषु योऽध्यवसायः-परिणामो विनिश्चयेनपरमार्थेन तत्त्वमिति-सत्यं तथ्यं सद्भूतमित्यर्थः । एतत् सम्यग्दर्शनं-सम्यक्त्वमभिधीयते । एतच्च
(२२१) (अव०)-संवृतात्मनस्तपसा पूर्वार्जितस्य कर्मणः क्षयः । उपधानं योगोद्वहनादि तेन नव्यकर्मप्रवेशाभावः ॥२२१॥
(२२२) (अव०)-जीवादिषु निश्चयेन परिणामः सद्भूतमिति ॥२२२॥