________________
प्रशमरतिप्रकरणम्
पुद्गलकर्म शुभं यत् तत् पुण्यमिति जिनशासने दृष्टम् । यदशुभमथ तत्पापमिति भवति सर्वज्ञनिर्दिष्टम् ॥२१९॥ योगः शुद्धः पुण्याश्रवस्तु पापस्य तद्विपर्यासः । वाक्कायमनोगुप्तिर्निराश्रवः संवरस्तूतः ॥ २२० ॥
( २१९ ) टीका–एवं जीवाजीवानभिधाय प्रपञ्चेन पुण्यापुण्यपदार्थद्वयमभिधित्सुराहपुद्गलकर्मेत्यादि । द्विचत्वारिंशत्प्रकृतयः शुभाः पुण्याभिधानाः । द्व्यभ्यधिकाशीतिरप्रशस्तप्रकृतीनां पापाभिधाना। एवमाहुः सर्वज्ञा इति आगमग्राह्यः पदार्थोऽयमिति प्रतिपादयति ॥२१९॥ ( २२० ) टीका- आश्रवसंवरौ निरूपयति-योग इत्यादि । योगो मनोवाक्कायाख्यः
१४१
(२१९) (वि०) एवं जीवाजीवावभिधाय सम्प्रति पुण्यापुण्यपदार्थद्वयमाह - पुद्गल कर्मेति । सूचकत्वात्सूत्रस्य पुद्गलमयं पौद्गलिकं, किमेवंविधमित्याह - कर्म । तच्च द्वेधा । तत्र यच्छुभं तत् पुण्यमिति जिनशासने दृष्टम् । यदशुभं तत् पापम् । अथानन्तर्ये । इति भवति सर्वज्ञनिर्दिष्टम्। तत्र पुण्यप्रकृतयः
सायं उच्चागोयं सत्ततीसं तु नामपयडीओ । तिन्नि य आऊणि तहा बायालं पुन्नपयडीओ ॥ (सातमुच्चैर्गोत्रं सप्तत्रिंशत्तु नामप्रकृतयः । त्रिणि चायूंषि तथा द्विचत्वारिंशत्पुण्यप्रकृतयः ॥ )
पापप्रकृतयस्तु यथा
नाणंतरायदसंगं दंसण नव मोहपयइछव्वीसं । नामस्स चउत्तीसं तिहं एक्वेक्क पावाओ || ||२१९|| (ज्ञानन्तरायदशकं दर्शनं नव मोहप्रकृतिषड्विंशम् । नाम्नः चतुस्त्रिंशत् त्रयाणां एकैकाः पापाः ॥ )
(२२०) (वि०) अथाश्रवसंवरौ निरूपयति-योग इति । योगो - मनोवाक्कायाख्यः, कीदृशः ?- शुद्धो-जिनागमपूर्वको व्यापारः, स किं ? - पुण्यस्याश्रवः पुण्याश्रवः, तु पुनरर्थः,
(२१९ ) ( अव०)-द्विचत्वारिंशत्प्रकृतयः पुण्यं द्व्यशीतिः पापम् ॥२१९॥
( २२० ) ( अव० )–आगमपूर्वो मनोवाक्कायव्यापारः । तस्य = योगस्य विपरीतता । गुप्तपनं स्थगिताश्रवद्वारः ॥ २२० ॥