________________
१४०
प्रशमरतिप्रकरणम्
परिणामवर्तनाविधिः परापरत्वगुणलक्षणः कालः ।
सम्यक्त्वज्ञानचारित्रवीर्यशिक्षागुणाः जीवाः ॥२१८॥ जीवितोपग्रहकराः क्षीरघृतादिपुद्गलाः, मरणोपग्रहकरा २विषगरादिपुद्गलाः सर्वेऽप्येते पुद्गलानामुपकाराः संसारिजीवविषयाः स्कन्धरूपेण परिणतानां, न परमाणुरूपेणेति ॥२१७||
(२१८) टीका-कालकृतोपकारदर्शनायाह-परिणामेत्यादि । परिणामस्तावद्वर्धतेऽङ्करो हीयते 'विनश्यतीत्यादिक: कालजनित उपकारः । वर्तनेति-वर्तत इदं न वर्तते कालापेक्षमेतदभिधानं प्रयुञ्जन्ते विद्वांसः । वर्तनाया विधिः प्रकार उक्तेन न्यायेन । परत्वमपरत्वं च कालकृतम् । पञ्चाशद्वर्षात्पञ्चविंशतिवर्षों परः,३ पञ्चविंशतिवर्षात्पञ्चाशद्वर्षोऽपरः । एवं परिणामादिगुणलक्षणः कालः परिणामादिभिर्यथोक्तैर्लक्ष्यत इत्यर्थः । अथ जीवाः केनोपकारेणोपकुर्वते ? सम्यक्त्वाद्युत्पादनेन । तत्र तत्त्वार्थश्रद्धानलक्षणं सम्यक्त्वमुत्पादयन्ति । ज्ञानं श्रुताद्यधिगमयन्ति । चारित्रं क्रियानुष्ठानमुपदिशन्ति । ५वीर्यं शक्तिविशेषं दर्शयन्ति । शिक्षा लिप्यक्षरादिसंविज्ञानं जनयन्ति । एते जीवकृता उपकाराः ॥२१८॥
उपग्रह:-सौभाग्यादृश्यीकरणधारास्तम्भादयः, एतांस्त्रीनपि कृतद्वन्द्वान् कुर्वन्ति-विदधतीति तत्कराः संसारिणो-जीवस्य, स्कन्धाः-प्रभूताणुसमुदायाः, न तु व्यणुकादयः स्कन्धाः, तेषां अत्र कार्येषु अनुपयोगित्वात्, स्युः भवेयुरिति क्रिया सर्वपदेषु योज्या इति ॥२१७||
(२१८) (वि०) अथ कालकृतोपकारप्रदर्शनायाह-परिणामेति । परिणामश्च वर्तनाविधिश्च परापरत्वं च तानि तथा तान्येव गुणा-लक्षणं यस्य कालस्य स परिणामवर्तनाविधिःपरापरत्वगुणलक्षणः । क एवंविधः?, 'अत आह-कालः । तत्र परिणमनं परिणामो, यथा वर्धतेऽङ्करो हीयते वा इत्यादिकः कालजनित उपकारः । वर्तनाया विधि:-प्रकारो वर्तनाविधिः, वर्तत इदं न वर्तते चेदमित्येतदपि कालापेक्षम्, अस्मिन् काल इदं प्रवर्तते इदं न प्रवर्तत इति । तथा परत्वमपरत्वं च', त्वप्रत्यय उभयत्र योज्यते, इदं च कालकृतं, कथं ?, पञ्चाशद्वर्षात्पञ्चविंशतिवर्षोऽपरः-अर्वाग्वर्ती,
शतिवर्षात्पञ्चाशद्वर्षः परः-परवर्तीति। कालः परिणामादिभिर्यथोक्तैर्लक्ष्यत इत्यर्थः । अथ जीवद्रव्यं केनोपकारेणोपकुरुते ? । अत्राजीवपदव्याख्याने यज्जीवपदव्याख्यानं तद् द्रव्यव्याख्याप्रस्तावात् । सम्यक्त्वादयो गुणा येषां ते तथा, जीवाः, तत्राद्यास्त्रयः प्रसिद्धार्थारे, वीर्य-शक्तिविशेषः, शिक्षा-ग्रहणासेवनरूपेति ॥२१८॥
(२१८) (अव०)-परिणमनं परिणामः, यथा वर्धतेऽङ्करो हीयते वा इत्यादिकालजनित उपकारः । इदं वर्तत इदं न वर्तते वर्तनाया:१ प्रकारः । परत्वमपरत्वं कालकृतं, पञ्चाशद्वर्षात्पञ्चविंशतिवर्षोऽपरः, २५ (पञ्चविंशति) वर्षात् ५० (पञ्चाशत् ) वर्ष:२ परः । शिक्षा लिप्यादि ग्रहणासेवनादिर्वा ॥२१८॥