________________
प्रशमरतिप्रकरणम्
कर्मशरीरमनोवाग्विचेष्टितोच्छ्वासदुःखसुखदाः स्युः । जीवितमरणोपग्रहकराश्च संसारिणः स्कन्धाः ॥२१७॥
१३९
स्योपकाराः । तथा शब्दपरिणामः पुद्गलानामेवोपकारः । बन्धनं बन्ध: कर्मपुद्गलानामात्मप्रदेशानां च क्षीरोदकवत् एकलोलीभावः पुद्गलद्रव्यस्योपकारः । सूक्ष्मतापरिणामः पुद्गलानामुपकारोऽनन्तप्रदेशानां स्कन्धानाम् । तथा स्थौल्यपरिणामोऽभ्रेन्द्रधनुरादीनां, संस्थानं चतुरस्रादि पुद्गलोपकारः । भेदः खण्डरूपं सोऽपि पुद्गलपरिणामः । तमोऽन्धकारपरिणामः पुद्गलद्रव्याणामेवोपकारः । छायापि पुद्गलपरिणामः । उद्योतश्चन्द्रतारकादीनां पुद्गलपरिणामः । आतपो दिनकरादीनां पुद्गलपरिणामः ॥२१६॥
(२१७) टीका - कर्मशरीरेत्यादि । कर्म ज्ञानावरणादि पुद्गलोपकारः । शरीरमौदारिकादि पुद्गलपरिणामः । मनोवाचौ' पुद्गलपरिणामः । २चेष्टितं क्रिया पुद्गलपरिणामः । उच्छ्वासः प्राणापानौ पुद्गलपरिणामः । दुःखं सुखं चेति पुद्गलजनितमेव ।
गुरुलघुमृदुकठिनशीतोष्णस्निग्धरूक्षभेदादष्टविधः, तिक्तकटुकषायाम्लमधुरभेदात्पञ्चविधो रसः, एवं कृष्णादिः पञ्चधा वर्णः, सुरभीतरभेदो गन्धः, कृतद्वन्द्वा एते चित्रभेदाः पुद्गलद्रव्यस्योपकारा' इति शेषः । शब्दोऽनेकप्रकारः, सोऽपि तस्यैवोपकारः, एवं सर्वत्र योजना । बन्धः कर्माणूनां आत्मप्रदेशैः सह, अथ पूरणे, सूक्ष्मता-सूक्ष्मपरिणामः, यत्सद्भावे पुद्गलाः साक्षादिन्द्रियैर्न गृह्यन्ते । तथा स्थौल्यंस्थूलता, यत्सद्भावे ग्रहणधारणयोग्याः स्कन्धाः, तथा संस्थानं वृत्तत्र्यस्त्रचतुरस्रायतपरिमण्डलभेदात् प्रसिद्धस्वरूपात् पञ्चधा । तथा भेदो- द्विधाभावो द्व्यादिस्कन्धानां पृथक्पृथग्भवनम् । तमःअन्धकारः। छाया-शीता आह्लादकारिणी । उद्योतो रत्नादिसमुद्भवः । आतपो-दिनकरतापः । भेदादयः पञ्चापि कृतद्वन्द्वाः । सर्वेऽप्येते पुद्गलद्रव्यस्योपकारा युक्त्यागमप्रतिपाद्याः ॥२१६॥
(२१७) (वि०) कर्मेति । तथा कर्म - ज्ञानावरणादि शरीरम् - औदारिकादि मनोमनोवर्गणाः वाग्-द्वीन्द्रियादिभिरुच्चार्यमाणा विचेष्टितानि - विविधव्यापारा ग्रहणोत्क्षेपणाकुञ्चनादयः उच्छ्वासः-आनपानौ, दुःखं सुखं च प्रतीतम्, एतानि कर्मादीन्यष्टौ पदानि कृतद्वन्द्वानि ददति-कुर्वन्ति १ते तथा । तथा जीवितम्- आयुः, तदपि पौद्गलिकमार्हतानां, जीवितोपष्टम्भहेतवो वा-अन्नपानादयः, मरणं प्राणत्यागलक्षणं, तदपि पुद्गलशाटात्मकत्वात्पौद्गलिकं, मरणहेतवो वा शस्त्राग्निविषादयः,
भेदो द्व्यादिस्कन्धानां पृथग्भवनम् । स्पर्शादयः पुद्गलद्रव्यस्योपकाराः । ' शब्दपरिणामः पुद्गलद्रव्याणामुपकारः कर्मपुद्गलानां बन्धः क्षीरनीरवत्, इन्द्रधनुरादिः ॥२१६॥
(२१७ ) ( अव० )—–— 'कर्म ज्ञानावरणादि शरीरम् औदरिकादि मनोवर्गणा वाग्द्वीन्द्रियादिभिरुच्चार्यमाणा विचेष्टितानि विविधव्यापारोत्क्षेपणाकुञ्चनादयः । उपग्रहः सौभाग्यादृश्यीकरणादिः जीवितदं क्षीरघृतादि, मरणदं विषास्त्रादि । स्कन्धाः ॥२१७॥