________________
१३८
प्रशमरतिप्रकरणम्
धर्मो गतिस्थितिमतां द्रव्याणां गत्युपग्रहविधाता । स्थित्युपकृच्चाधर्मोऽवकाशदानोपकृद् गगनम् ॥२१५॥ स्पर्शरसगन्धवर्णाः शब्दो बन्धश्च सूक्ष्मता स्थौल्यम् ।
संस्थानं भेदतमश्छायोद्योतातपश्चेति ॥२१६॥ (२१५) टीका-१धर्मादीनि द्रव्याणि कार्यमिति निर्दिशन्नाह-धर्मो गतीत्यादि । धर्मद्रव्यं गतिमतां द्रव्याणां स्वयमेव गतिपरिणतानां उपग्रहे वर्तते जीवपुद्गलानां, न पुनरगच्छज्जीवद्रव्यं पुद्गलद्रव्यं वा बलान्नयति धर्मः, किन्तु स्वयमेव गतिपरिणतमुपगृह्यते धर्मद्रव्येण, मत्स्यस्य गच्छतो जलद्रव्यमिवोपग्राहकम्, यथा वा व्योमद्रव्यं स्वयमेव द्रव्यस्यावगाहमानस्य कारणं भवति, न पुनरनवगाहमानं बलादवगाढं कारयति । यथा रेवा कृषीवलानां कृष्यारम्भं स्वयमेव कर्तुमुद्यतानामपेक्षाकारणं वर्षं भवति, न च तानकुर्वतः कृषीवलान् बलात् कृषि कारयति ३वर्षम् । यथा वा गजितध्वनिसमाकर्णनाद् बलाकानां गर्भाधानप्रसवौ भवतः, न च तामप्रसवती बलाकां बलाद् गजितशब्दः प्रसावयति । यथा वा पुरुषः प्रतिबोधनिमित्तं पापाद्विरमति, न चाविरमन्तं पुमांसं बलात्प्रतिबोधो विरमयतीति । एवं गतिपरिणामभाजां पुद्गलजीवानामपेक्षाकारणं धर्मद्रव्यम् । तथा स्थितिमतां द्रव्याणां स्थितेरपेक्षाकारणमधर्मद्रव्यं स्वयमेव तिष्ठतां, न चातिष्ठद् द्रव्यं बलादधर्मः स्थापयति । एवं स्थितिमतां द्रव्याणां स्थित्युपकारी भवत्यधर्मः । गगनं तु जीवपुद्गलानामवगाहमानानामवकाशदानेन व्याप्रियते ॥२१५।।
टीका-पुद्गलद्रव्यं कमुपकारं विधत्त इत्याह-स्पर्शेति । स्पर्शादयः पुद्गलद्रव्य
(२१५) (वि०) धर्मादिद्रव्योपकारमाह-धर्म इति । धर्मो-धर्मास्तिकायो, गतिस्थितिमतां द्रव्याणां यथासम्भवं सम्बन्धः कार्यः । तत्र गतिपरिणतानां द्रव्याणां-जीवपुद्गलानां गत्युपग्रहस्य विधाता-कर्ता धर्मास्तिकायः । स्थितिपरिणतानां तु स्थित्युपकर्ताधर्मोऽधर्मास्तिकायः । तथा अवकाशदानोपकृद्-अवगाहतां च द्रव्याणामवकाशदानमुपकरोति, किं तत् ?-गगनम्आकाशास्तिकाय इति ॥२१५।।
(२१६) (वि० ) अथ पुद्गलद्रव्यस्य के उपकारा इत्याह-स्पर्शेति । कर्मेति । स्पर्शो
(२१५) (अव०)-गतिनिमित्तं स्थित्युपकारी ॥२१५॥ (२१६) (अव०) सूक्ष्मता परिणामः स्कन्धानामेव तत्सद्भावेन ते इन्द्रियग्राह्याः साक्षात्,