________________
प्रशमरतिप्रकरणम्
१३७
धर्माधर्माकाशानि एकैकमतः परं त्रिकमनन्तम् । कालं विनास्तिकाया जीवमृते चाप्यकर्तृणि ॥२१४॥
मर्त्यलौकिक:१ कालः । २मर्त्यलोको मनुष्यलोकः अर्धतृतीया द्वीपाः समुद्रद्वयं च मानुषोत्तरमहीधरेण परिक्षिप्तः३ । तावत्येव क्षेत्रे ४वर्तनादिलक्षण: कालो, न परतः । लोकव्यापिचतुष्टयमवशेषं धर्माधर्मजीवपुद्गलाख्यम् । सर्वत्र लोकाकाशे धर्माधर्मों । सूक्ष्मशरीराश्च जन्तवः सर्वलोक एव । पुद्गलाश्च परमाणुप्रभृतयः सर्वलोक इति । एकोऽपि वा जीवः सकललोकाकाशव्यापी केवलिसमुद्घातकाल एव भवतीति ॥२१३॥
(२१४) टीका-अत्र किमेकं द्रव्यं किं १वानेकद्रव्यमित्याह-धर्माधर्मेत्यादि । धर्मद्रव्यमधर्मद्रव्यमाकाशद्रव्यं च त्रीण्यप्येकद्रव्याणि एकमेव द्रव्यं धर्मः, अधर्माकाशावपि तथैव । व्योमद्रव्यं तु लोकालोकरूपमेकमेवेति प्रतिपत्तव्यम् । जीवद्रव्यमनन्तसङ्ख्यम् । तथा पुद्गलद्रव्यं कालद्रव्यमप्यनन्तसमयमतीतानागतादिभेदेनेति । अथायमस्तिकायशब्दः किं सर्वद्रव्यविषयः? नेत्याह-कालं विनाऽस्तिकायाः । कालस्तु नास्तिकायः, न प्रचयोऽस्ति समयानाम् । वर्तमानस्त्वेक एव समय: स नास्तिकायः । अन्यत्र प्रचयोऽस्ति । असङ्ख्येयप्रदेशो जीवः, तथा धर्माधर्मावपि । व्योमानन्तप्रदेशं पुद्गलद्रव्यं च। जीवादृते द्रव्याणि धर्मादीनि कर्तृत्वपर्यायशून्यानि । ३जीवस्तु कर्ता शुभाशुभानां कर्मणामिति ॥२१४॥
केवली, न पुनरन्य इति । अन्ये त्ववशेषमिति पदं चतुष्टयस्य विशेषणं कृत्वा व्याख्यान्ति-एकजीवो लोकं व्याप्नोति केवलिसमुद्धाते, वाशब्दादजीवोऽप्यचित्तमहास्कन्ध इत्यपि ॥२१३॥
(२१४) (वि०) धर्मेति । धर्माधर्माकाशानि त्रीणि एकैकमिति-एकैकद्रव्यरूपाणि, अत-एतस्मात् परं-व्यतिरिक्तं त्रिकं-कालपुद्गलजीवास्तिकायात्मकमनन्तम्-अनन्तप्रमाणम् । कालं विना-कालमन्तरेण पञ्च अस्तिकाया:-प्रदेशसमूहाः, अयमर्थः-धर्माधर्मलोकाकाशैकजीवप्रदेशा असङ्ख्याः , पुद्गला अनन्ता इति । जीवमृते चापि-जीवास्तिकायं विना अन्यद्रव्याणि पञ्चाप्यकर्तृणि-न सुखदुःखादेः कारणानि, जीव एव सुखदुःखकारी, अकर्तृत्वे सति संसाराभावप्रसङ्गादिति ॥२१४॥
(२१४) (अव०)-धर्मास्तिकायादयस्त्रयोऽप्यसङ्ख्येयप्रदेशाः । जीवद्रव्यमसङ्ख्यं कालद्रव्यम नन्तसमयं, कर्तृपर्यायशून्यानि ॥२१४॥