________________
१३६
प्रशमरतिप्रकरणम्
सप्तविधोऽधोलोकस्तिर्यग्लोको भवत्यनेकविधः । पञ्चदशविधानः पुनरूज़लोकः समासेन ॥२१२॥ लोकालोकव्यापकमाकाशं मर्त्यलौकिकः कालः । लोकव्यापि चतुष्टयमवशेषं त्वेकजीवो वा ॥२१३॥
(२१२) टीका-एवमधस्तिर्यगूज़ च विभक्ते लोके को विभागः कतिविध इति दर्शयति-सप्तविध इति । समासेनेति सङ्क्षपेण । रत्नप्रभादिभेदेन महातमःप्रभान्तेन' सप्तधाऽधोलोकः। तिर्यग्लोकोऽनेकप्रकार: जम्बूद्वीपादिभेदेन लवणसमुद्रादिभेदेन च । असङ्ख्येयद्वीपसमुद्रा इति । ज्योतिष्कभेदा अपि तिर्यग्लोक एव । ऊर्ध्वलोकस्तुरे पञ्चदशभेदः । दशकल्पाः सौधर्मादयः, आनत प्राणतावेक एव कल्पः एकेन्द्रस्वामित्वात्, आरणाच्युतौ च । एवं दश कल्पाः । ग्रैवेयकाणि त्रीणि अधोमध्यमोपरितनभेदेन । पञ्च महाविमानानि चतुर्दशो भेदः । ईषत्प्राग्भारा क्षोणि पञ्चदशो भेद इति ॥२१२।।
(२१३) टीका-अथाकाशं किं लोकमात्रमेवाहोस्वित्सर्वत्रेत्याह-लोकालोकेत्यादि । व्यापकमिति लोकालोकस्वरूपमुच्यते लोकस्वरूपमलोकस्वरूपं च । जीवाजीवाधारक्षेत्रं लोकस्ततः परमलोक इति । यत्राकाशे जीवाजीवादिपदार्थपञ्चकं तल्लोकाकाशं, यत्राभावो जीवादीनां तदलोकाकाशमिति जीवाद्याधारकृतो भेदोऽन्यथा एकमेवाकाशम् ।
(२१२) (वि०) सप्तेति । सप्तविधः-सप्तप्रकारो भवत्यधोलोकः, तत्र हि घर्माद्याः सप्त पृथिव्योऽधोऽधो विस्तृताः । तिर्यग्लोको भवत्यनेकविधः, तत्र ह्यसङ्ख्येया द्वीपसमुद्राः । पञ्चदशविधानः-पञ्चदशप्रकार: पुनरूज़लोकः समासेन-सक्षेपेण, तत्र हि द्वादश कल्पाः ग्रैवेयकाश्च नव इति एकः, 'पञ्चोत्तराणीत्येकः, सिद्धिश्चेति पञ्चदशेति ॥२१२॥
(२१३) (वि०) लोकेति । लोकालोकयोः समयप्रसिद्धयोर्व्यापकमाकाशं, तत्प्रमाणमित्यर्थः । मर्त्यलोकभवः कालः। लोकव्यापि चतुष्टयं-चतुर्दशरज्ज्वात्मकाकाशखण्डव्यापि द्वयोराकाशकालयोरुद्धरितं धर्मास्तिकायादिकम् । अवशेषं तु-सर्वलोकस्यासङ्ख्येयभागादिकम् एकजीवः-पृथिव्यादिको व्याप्नोतीति शेषः, वाशब्दात् समस्तलोकं व्याप्नोति केवलिसमुद्धाते 'वा
(२१२ ) (अव० )-जम्बूद्वीपादिभेदेन वैमानिकदेवलोका:१ १२, ग्रैवेयकाः १३, अनुत्तराः १४, सिद्धिः १५ ॥२१२॥
(२१३)(अव०)-अवशेषं समस्तलोकासङ्ख्येयभागादिकम् । एको जीवः पृथिव्यादिको व्याप्नोति । वाशब्दात्समस्तलोकम् । केवलीसमुद्घातगतः केवली ॥२१३॥