________________
प्रशमरतिप्रकरणम्
जीवाजीवा द्रव्यमिति षड्विधं भवति लोकपुरुषोऽयम् । वैशाखस्थानस्थः पुरुष इव कटिस्थकरयुग्मः ॥२१०॥ तत्राधोमुखमल्लकसंस्थानं वर्णयन्त्यधोलोकम् । स्थालमिव च तिर्यग्लोकमूर्ध्वमथ मल्लकसमुद्गम् ॥२११॥
१३५
(२१०) टीका–जीवाः पुनः सर्वभावेषु औपशमिकादिषु वर्तन्त इति पूर्वमेव भावितम् । अथ कोऽयं लोक इत्याशङ्कते, किं द्रव्यान्तरमुतान्यत् किञ्चिदित्याह - जीवाजीवा इत्यादि । जीवा' अजीवा धर्माधर्माकाशपुद्गलाः कालश्च षट् द्रव्याणि । २लोकपुरुषः पुरुष इव लोकपुरुषः प्रतिविशिष्टसंस्थानत्वात् । अत्र च जीवादीनां पञ्चानां द्रव्याणामाधारभूतं यत्क्षेत्रं तल्लोकशब्दाभिधेयं लोकपुरुष इत्युक्तम् । तन्निबन्धनमाह - वैशाखस्थानस्थ इति । वैशाखं धानुष्कस्य स्थानकम् । ऊर्ध्वमधस्थितः पुरुषो विक्षिप्तजङ्घाद्वयः कट्यां व्यवस्थापिताकुञ्चितहस्तद्वयो यथा ' तल्लोकपुरुष इति ॥२१०||
I
( २११ ) टीका—तदेव वैशाखस्थानकं दर्शयति - तत्राधोमुखेत्यादि । तत्र तस्मिन् लोके अधोलोकविभागः अधोमुखमल्लकाकारः । उपरि सङ्क्षिप्तमधो विशालं वर्धमानकम् अधोमुखं भवति । रजतस्थालाकारं तिर्यग्लोकं वर्णयन्ति । तिर्यग्लोकादूर्ध्वमल्लकसम्पुयकारमूर्ध्वलोकं वर्णयन्ति । मल्लकसमुद्गश्च एकं वर्धमानकमूर्ध्वमुखमपरं शरावमधोमुखं तस्योपरीति । एतत्प्रतिपादयति काक्वा । लोकोऽधः सप्तरज्जुप्रमाणो विस्तरेण । तिर्यग्लोको रज्जुप्रमाणः । शरावसम्पुटमध्ये पञ्चरज्जुप्रमाण उपर्येकरज्जुप्रमाण इति ॥२११॥
(२१०) (वि०) अथ कोऽयं लोक इत्याशङ्कते - किं द्रव्यान्तरमुतान्यत्किञ्चिदित्याहजीवाजीवा इति । जीवाजीवा इति षड्विधं द्रव्यं भवति, स च षड्विधः द्रव्यसंयोगः आधाराधेयरूपो लोकपुरुषः, अयं निगद्यते । स च संस्थानतो' वैशाखस्थानस्थो - विवृतपादस्थानस्थितः पुरुष इव-नर इव । कीदृशः ? - कटिस्थकरयुग्मः -कटिप्रदेशस्थापितहस्तद्वयः, विवृतपादभ्राम्यमाणनराकार इति ॥२१०॥
(२११ ) (वि० ) तत्रेति । अत्र स्थालमिव चेत्यत्र चकारो न दृश्यते आदर्शकेषु, तं च विना छन्दो न पूर्यते, तत्त्वं श्रुतविदो विदन्ति । तत्र - पुरुषेऽधोलोकं - सप्तनरकपृथ्वीरूपम् अधोमुखमल्लकसंस्थानम् - अवाङ्मुखशरावाकारं वर्णयन्ति - प्रतिपादयन्ति, स्थालमिव चवृत्तभाजनाकारं, किं तत् ? - तिर्यग्लोकं - मध्यलोकं, ऊर्ध्वलोकमथ मल्लकसमुद्गं-शरावसम्पुटाकारमिति ॥ २११।।
( २१० ) ( अव० ) - विवृतपादस्थानस्थितो विवृतपादभ्राम्यमाणनराकार इति ॥२१०॥ ( २११ ) ( अव० )–तत्र-लोके । अवाङ्मुखशरावाकारमधोलोकम् ऊर्ध्वलोकं शरावसम्पुटाकारम् ॥२११॥