________________
१३४
भावे धर्माधर्माम्बरकालाः पारिणामिके ज्ञेयाः । उदयपरिणामि रूपं तु सर्वभावानुगा जीवाः ॥२०९॥
परमाणुस्तु न स्कन्धशब्दाभिधेयोऽप्रदेशत्वात् । न हि तस्य द्रव्यप्रदेशाः सन्त्यन्ये, स्वयमेवासौ' प्रदेशः । प्रकृष्टो देशो ऽवयवः प्रदेशः, न ततः परमन्यः सूक्ष्मतमोऽस्ति पुद्गल द्रव्यदेशः । वर्णरसगन्धस्पर्शगुणेषु भजनीयः सेवनीयः । प्रदेशत्वेन सन्निहितस्य वर्णादयोऽवयवास्तैरवयवैः सप्रदेश एवासौ द्रव्यावयवैरप्रदेश इति । यथोक्तं शास्त्रे -
प्रशमरतिप्रकरणम्
कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्शः कार्यलिङ्गश्च ॥ इति ॥२०८||
(२०९) टीका - कस्मिन् पुनर्भावे औदयिकादौ धर्मादीन्यजीवद्रव्याणि वर्तन्त इत्याह- भावे धर्मेत्यादि । अनादिपारिणामिकभावे धर्माधर्माकाशकालद्रव्याणि चत्वारि वर्तन्ते जीवभव्यत्वादिवत् । यथा चानादिः संसारस्तथा धर्मादिद्रव्यपरिणामोऽपीति । न जातुचिद्धर्मादिद्रव्यरहित आसील्लोकः । पुद्गलद्रव्यं पुनररौदयिके भावे भवति पारिणामिके च । परमाणुः परमाणुरिति अनादिपारिणामिको भावः । आदिमत्पारिणामिकस्तु द्व्यणुकादिरथ्रेन्द्रधनुरादिश्च। वर्णरसादिपरिणामकस्तु परमाणूनां स्कन्धानां चौदयिको भावः द्व्यणुकादिसंहतिपरिणामश्चेति ॥२०९॥
॥२०९॥
स परमाणुः, न ततोऽप्यन्यो लघुरस्तीति, अत एवाप्रदेशः, अपरद्रव्यविकलत्वात्, वर्णादिगुणेषु चवर्णगन्धरसस्पर्शेषु च एकगुणाद्यनन्तगुणेषु च भजनीयो निश्चेतव्यो वा, तानङ्गीकृत्यासौ सप्रदेश एव, तदुक्तम्
कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ ( ) ॥२०८॥
(२०९ ) ( वि० ) भाव इति । भावे पारिणामिके धर्माधर्माम्बरकालाः चत्वारो ज्ञेयाज्ञातव्याः, अन्यभावाप्रवृत्तेः, एते चत्वारोऽरूपाः, रूपं तु-पुद्गलद्रव्यं पुनरुदयपरिणामि वर्तते, औदयिके पारिणामिके भावे पुद्गला वर्तन्ते इत्यर्थः । तत्रौदयको भावः स्कन्धपरमाणूनां वर्णरसादिपरिणामः, पारिणामिके परमाणुः' इत्यजीवाः पञ्चधा । जीवाः सर्वभावानुगाः-यथासम्भवं द्वयादिभाववन्त इति ॥ २०९॥
( २०९ ) ( अव० )—–अनादिपारिणामिके' पुद्गलद्रव्यं सर्वभावेषु औपशमिकादिषु वर्त