________________
प्रशमरतिप्रकरणम्
१३३
धर्माधर्माकाशानि पुद्गलाः काल एव चाजीवाः । पुद्गलवर्जमरूपं तु रूपिणः पुद्गलाः प्रोक्ताः ॥२०७॥ व्यादिप्रदेशवन्तो यावदनन्तप्रदेशिका: स्कन्धाः । परमाणुरप्रदेशो वर्णादिगुणेषु भजनीयः ॥२०८॥
त्रिकाल-विषयः पिण्डघटकपालावस्थासु न नष्टो न विगतः स तेन भावेन मृदादिना ध्रुवो भवन्२ नित्यः । एवं यदस्ति तत्सर्वमुत्पादव्ययध्रौव्यरूपम् । न च ध्रौव्यमन्तरेणोत्पादविनाशयोनिर्बीजयोः सम्भवः क्वचित्३ । उत्पादश्च ध्रौव्यविनाशापेक्षः । विनश्यदपि ध्रौव्योत्पादापेक्षम् । ध्रुवमप्युत्पादविनाशापेक्षम विनाभावित्वात् परस्परमुत्पादादीनामिति ॥२०६॥
(२०७) टीका-अजीवानधिकृत्याह-धर्माधर्म इत्यादि । धर्मद्रव्यं, अधर्मद्रव्यम्, आकाशद्रव्यं, पुद्गलद्रव्यं, कालद्रव्यमिति पञ्चाजीवद्रव्याणि । तत्र तेषु पञ्चसु पुद्गलद्रव्यं रूपरसगन्धस्पर्शवत्, शेषं द्रव्यचतुष्टयमरूपं, रूपादिवजितमित्यर्थः । रूपिण इत्यत्र 'रसगन्धस्पर्शाः सर्वदा रूपाविनाभाविन इति परमाणावपि सम्भवन्तीति तत् दर्शितं भवति ॥२०७।।
टीका-स्कन्धास्तु-द्वयादिप्रदेश इत्यादि । द्वयादिप्रदेशभाजः स्कन्धाः सङ्घाताः एकद्व्यणुकप्रभृतयः । द्वयोरण्वोस्त्रयाणां वेत्यादिप्रारब्धाः यावदनन्तप्रदेशाः सर्वे स्कन्धाः । सम्बन्धी-एतस्यैते एतेषां चैतदिति तेन रूपेण मृदादिना अन्वयिना अविगमः-अविनाशस्तस्येतिमृद्रूपस्य घटकुशूलकपालादेश्चेति स-मृदादिर्घटादि वा नित्यो-ध्रुवस्तेन भावेनेति ॥२०६।।
(२०७) (वि०) साम्प्रतमजीवपदार्थं प्रकटयितुकामो भेदतः स्वरूपतश्चाह-धर्मेति । धर्माधर्माकाशानि कृतद्वन्द्वानि गतिस्थित्यवगाहदानलक्षणानि पुद्गलाः-पूरणगलनधर्माणः कालः एव च-अर्धतृतीयद्वीपसमुद्रद्वयव्यापी वर्तनादिलिङ्गः । एते पञ्चाप्यजीवाः । पुद्गलवर्ज-पुद्गलास्तिकायविकलं धर्मादिचतुष्टयमरूपं तु-अमूर्तिमदेव । रूपिणो-मूर्तिमन्तः पुद्गलाः प्रोक्ता-भणिता इति ।।२०७||
(२०८) (वि०) व्यादीति । द्व्यादिप्रदेशवन्तो-द्वित्रिचतुष्पञ्चादिपरमाणुसङ्घातनिष्पन्ना यावदनन्तप्रदेशिकाश्च-अनन्तानन्तपरमाणूपचयघटितमूर्तयः स्कन्धा-अवयविनो, यः पुनस्तेषां कारणं
(२०७) (अव०)-पञ्चाजीवद्रव्याणि रूपरसगन्धस्पर्शवत् ॥२०७॥
(२०८) (अव०) न हि ते द्रव्यप्रदेशाः सन्ति, अन्ये च वर्णादयः, किन्तु तमेव प्रदेशं वर्णादिपुद्गलाः सन्निहिताः स्युः ॥२०८॥