________________
१३२
प्रशमरतिप्रकरणम्
योऽर्थो यस्मिन्नाभूत् साम्प्रतकाले च दृश्यते तत्र । तेनोत्पादस्तस्य विगमस्तु तस्माद्विपर्यासः ॥२०५॥ साम्प्रतकाले चानागते च यो यस्य भवति सम्बन्धी । तेनाविगमस्तस्येति स नित्यस्तेन भावेन ॥ २०६॥
( २०५ ) टीका–उत्पादादित्रयभावनायाह-योऽर्थो यस्मिन्नाभूद् इत्यादि । घटार्थो मृत्पिण्डे नास्ति नाभूदित्यर्थः । स च मृत्पिण्डश्चक्रमस्तकारोपणादिना परिकर्मविधिना वर्तमानकाले परिनिष्पन्न उपलभ्यते घटोऽयमुत्पन्न इति । १ तेनाकारेणोत्पादः तस्य घटस्येति । विगमस्तु विनाशः, तस्मादुत्पादाद्विपर्यास: विपरीत: २, पिण्डो विनष्टो नोपलभ्यते न दृश्यते इति ॥२०५॥
(२०६) टीका - साम्प्रतकाल इत्यादि । वर्तमानकालेऽनागते भविष्यति च काले । चशब्दादतीते च' । यः पदार्थो मृदादिस्वरूपं न जहाति वर्तमानघटपर्यायसम्बन्धी मृमृदिति
भाव्यते-तदेव घटादि द्रव्यमेकस्मिन् देशे स्वपर्यायैरादिष्टं अन्यत्र देशे परपर्यायैरादिष्टं अपरत्र देशे स्वपर्यायैः परपर्यायैश्च युगपदादिष्टं स्यादस्ति च नास्ति चावक्तव्यं चेति ७। एवमयं सप्तप्रकारो वचनविकल्पः । अत्र च सकलादेशास्त्रयः स्यादस्ति १ स्यान्नास्ति २ स्यादवक्तव्यः ३, शेषाश्चत्वारो १७ विकलादेशाः स्यादस्ति च नास्ति च १ स्यादस्ति चावक्तव्यश्च २ स्यान्नास्ति च अवक्तव्यश्च ३ स्यादस्ति च नास्ति चावक्तव्यश्चेति ४ । अतोऽन्येन प्रकारेणान्यथा, अर्पितं विशेषितमुपन्यस्तम्, अनर्पितमविशेषित "मनुपनीतं चेत्यस्माद्विशेषात् सप्त विकल्पा भवन्ति ॥ २०४॥
(२०५) (वि०) उत्पादादित्रितयभावनामाह-योऽर्थ इति । योऽर्थो घटादिर्यस्मिन्कुशूलादौ नाभूत्-नासीत्, सुप्रसिद्धं चैतत् कुशूलाद्यवस्थायां घटाद्यभावः, साम्प्रतकाले चवर्तमानकाले च दृश्यते-उपलभ्यते तत्र - कुशूलादौ दण्डचक्र - चीवरादि - सामग्र्यां वा तेन घटरूपेण तस्य-कुशूलादेरुत्पादः- प्रादुर्भावस्तस्य - कुशूलस्य, ततो घटादि: २, विगमो-विनाशस्तस्मात्कुशूलाद्यो विपर्यासो घटः स एव तस्य विनाशो, य एव च तस्य विनाशः स एव तस्योत्पादः, तुलादण्डसमकालभाव्युन्नत्यवनतिवत् । न हि जैनानां निरूपो विनाशोऽस्ति, न च प्राक्तनरूपानुपमर्दे समुत्पादोऽस्तीति ॥२०५॥
(२०६ ) (वि०) साम्प्रतेति । साम्प्रतकाले - वर्तमानकाले अनागते च भाविनि चकाराद्भूते-अतीते घटकुशूलकपालेषु च यो मृदादिर्यस्य घटस्य कुशूलस्य कपालादीनां च भवति
(२०५) (अव० )- कुशूलाद्यवयवावस्थायां घटाद्यभावः । घटोऽयमुत्पन्न इति तेनाकारेण तस्य घटस्य ॥ २०५ ॥
(२०६ ) ( अव० ) - चशब्दादतीते । यस्य पदार्थस्य तेन पदार्थेन ॥ २०६ ॥