________________
प्रशमरतिप्रकरणम्
१३१
चावक्तव्यं च । षष्ठो विकल्पः नास्ति चावक्तव्यश्च तस्यैव घटादेव्यस्य एकदेशः परपर्यायैरादिष्टः, अपरदेश: स्वपर्यायैः परपर्यायैश्च युगपदादिष्टः, तद् द्रव्यं नास्ति चावक्तव्यं च भवति । अथ सप्तमो विकल्पः-तदेव घटादिद्रव्यं एकस्मिन् देशे स्वपर्यायैरादिष्टम्, अन्यत्र देशे परपर्यायैरादिष्टम्, अपरत्र देशे स्वपर्यायैः परपर्यायैश्च युगपदादिष्टं अस्ति च नास्ति चावक्तव्यं चेति । एवमयं सप्तप्रकारो वचनविकल्पः । अत्र च सकलादेशास्त्रयः-स्यादस्ति, स्यान्नास्ति, स्यादवक्तव्यः । शेषाश्चत्वारो विकलादेशाः, १°स्यादस्ति च नास्ति च क्रमेण ११भावितः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, १२स्यादस्ति च नास्ति चावक्तव्यश्चेति । अतोऽन्यथा चान्यथापितं विशेषितमुपनीतं, अनर्पितमविशेषितमनुपनीतं चेत्येतस्माद्विशेषात्सप्तविकल्पं भवतीति ।।२०४।।
कुशूलविगममृतत्त्ववत् इति । वचनमुच्चार्य विगमध्रौव्यद्वयं नार्पितमिति । न पुनस्तेषामयमाशयः यथोत्पाद एवास्ति सर्वथा विगमध्रौव्यशून्यः । ननु कथमेकस्मिन् उक्तेऽन्यद्वयसद्भावो भवति ?, भवत्येव, कथं ? यथा हि पुरुषस्य भ्रातृपुत्रपितृत्वाद्यनेकरूपसम्भवेऽपि तत्कार्यकरणक्षमत्वेन केनापि भ्रातेत्युक्ते न पुनः पुत्रादित्वं तत्र नास्तीति, एवमत्रापि एवंविधविवक्षासद्भावात् नान्यवादिनामिव जैनानां दोषः प्रादुर्भवति । केचन विद्वांसः सप्तभङ्गीसूचनद्वारेण व्याख्यान्तीमामार्याम् । सा च व्याख्यैवम्-उत्पादः-उत्पत्तिः विगमो-विनाशो नित्यत्वं-ध्रौव्यमेतेषां द्वन्द्वस्तानि लक्षणं यस्य तत्तथा, यदेतल्लक्षणत्रयोपेतं तदस्ति सर्वमपि, अङ्गलिवत्, यथा मूर्तत्वेनाङ्गलिरवस्थिता ध्रुवा ऋजुत्वेन विनष्टा वक्रत्वेनोत्पन्नेति, एवं यदुत्पातादित्रयोपेतं तत्सर्वमस्ति, यन्नास्ति तदुत्पादादित्रितयवदपि न भवति, खरविषाणवत्, अतो विकल्पद्वयमुक्तं-स्यादस्ति १ स्यान्नास्ति० २। सदसद्वा भवतीति तृतीयविकल्पः, स्यादस्ति च नास्ति चेति ३। अन्यथा-अन्येन प्रकारेणार्पितानर्पितविशेषादिति चत्वारो विकल्पाः सूचिताः, स्यादवक्तव्य:११ ४ स्यादस्ति चावक्तव्यश्च ५ स्यान्नास्ति चावक्तव्यश्च ६ स्यादस्ति च नास्ति चावक्तव्यश्चेति ७, तत्राद्यभङ्गकद्वयं१२ भावितार्थमेव । तृतीयस्तु अस्ति च नास्ति चेति, एकस्य घटादेव्यस्य देशो ग्रीवादिः सद्भावपर्यायेणादिष्टो वृत्तबुध्नत्वेन परगतपर्यायेण च तद्वस्तु अस्ति च नास्ति चेति भावना कार्या ३ १२इतश्चतुर्थो विकल्पः स्यादवक्तव्य इति, सकलमेवाखण्डितं तद्वस्तु अर्थान्तरभूतैः पटादिपर्यायनिजैश्चोर्ध्वकुण्डलौष्ठायन वृत्तग्रीवादिभिर्युगपद्-अभिन्नकाले समादिष्टं न अस्तीति वक्तुं शक्यते न च नास्तीति वक्तुं पार्यते, युगपदादेशद्वयप्राप्तौ वचनविशेषातीतत्वादेवावक्तव्यमिति ४ इतोऽस्ति चावक्तव्यश्चेति पञ्चमो विकल्पः, तस्यैव घटादेर्वस्तुन एको देश: सद्भावपर्यायैरादिष्टोऽपरो देशः स्वपर्यायैः परपर्यायैश्च युगपदादिष्टः तद् द्रव्यमस्ति चावक्तव्यं च ५ अथ षष्ठो विकल्प:-स्यान्नास्ति चावक्तव्यश्च, तस्यैव घटादेव्यस्य एकदेशः परपर्यायैरादिष्टोऽपरो देशः स्वपर्यायैः परपर्यायैर्युगपदादिष्टस्तद् द्रव्यं नास्ति चावक्तव्यं च भवति ६ अथ सप्तमो विकल्पो