________________
१३०
प्रशमरतिप्रकरणम्
विकल्पद्वयमुक्तम्-स्यादस्ति स्यान्नास्तीति । सदसद्वा भवतीति तृतीयविकल्पः स्यादस्ति च स्यान्नास्ति चेति । अन्यथार्पितानर्पितविशेषादिति चत्वारो विकल्पाः सूचिताः-स्यादवक्तव्यः, स्यादस्ति चावक्तव्यश्च, स्यान्नास्ति चावक्तव्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्चेति । तत्रास्ति च नास्ति चेति एकस्य घटादे व्यस्य देशो ग्रीवादिः सद्भावपर्यायेणादिष्टो ग्रीवात्वेन, अपरश्च देशस्तथैव वस्तुनाऽसद्भावपर्यायैरादिष्टो वृत्तबुध्नत्वेन परगतपर्यायेण च तद्वस्तु अस्ति च नास्ति चेति भावना कार्या । स्यादवक्तव्य इति सकलमेवाखण्डितं तद्वस्तु अर्थान्तरभूतैः ५पटादिभिः पर्यायैर्निजैश्चोर्ध्वकुण्डलेष्वायतवृत्तो ग्रीवादिभिर्युगपदभिन्ने काले समादिष्टं नास्तीति वक्तुं न शक्यते, न चास्तीति वक्तुं पार्यते। युगपदादेशद्वयप्राप्तौ वचनविशेषातीतत्वादेवावक्तव्यमिति । अस्ति चावक्तव्यश्चेति पञ्चमो विकल्पः । तस्यैव घटादेर्वस्तुनः एको देशः सद्भावपर्यायैरादिष्टोऽपरो देश: स्वपर्यायैः परपर्यायैश्च युगपदादिष्टः तत्र द्रव्यमस्ति
पत्रादिशाटवत्, नित्यत्वं स्थिरत्वं कालत्रयेऽप्यविनाशित्वम्, एतानि कृतद्वन्द्वानि विवक्षावशप्रापितभेदानि तत्त्वतो मनागप्यभिन्नानि समुदितानि लक्षणं-स्वरूपं यस्य तत्तथा । यदेवंविधं त्रिविधत्वमुक्तं तदस्ति वर्तते सर्वमपि, तथाहि-घटस्य घटरूपेणोत्पादः कुशूलादिरूपेण विनाशो मृद्रूपेण च सदैव नित्यत्वं, तथा पुंसः पुंस्त्वेनोत्पादः प्राक्तनरूपेण विनाशो जीवरूपेण ध्रौव्यमिति । न चोत्पादे असति विनाशो, न च विनाशे 'चासत्युत्पादः, न हि घटाद्यनुत्पादे कुशूलादिविनाशो, न च कुशूलाद्यविनाशे घटाद्युत्पादः, न च तौ मृत्त्वं विना, निर्मूलत्वात् , न च साऽपि तौ विना, पर्यायत्वाद्, गन्धादिविशेषरहितेन्दीवरवत् । तदेवं त्रितयं परस्परापेक्षं सत्त्वलक्षणमिति । अन्यथा त्रितयं यदि नाभ्युपगम्यते किन्त्वेकस्य द्वयोर्वा सत्त्वलक्षणत्वेऽभ्युपगम्यमाने यत्सत् तदसद्भवति, असद्वाअविद्यमानं सद्भवति । यच्च सतोऽसद्भवनं असतो वा सद्भवनं तन्महालीकतां महाकर्मबन्धं च तस्य वादिन आवेदयतीत्युपेक्षणीयमिति । ननु च सैद्धान्तिका अपि क्वचिदुत्पादं क्वचिद्विनाशं क्वचिन्नित्यत्वं प्रतिपादयन्ति, तथाहि-“जिणपवयणउप्पत्ती" (जिनवचनोत्पत्तिः) इत्यादि "सव्वट्ठाणाई असासयाइं" (सर्वस्थानान्यशाश्वतानि) इत्यादि "इयं दुवालसंगी न कयाई ‘नासी" (इयं च द्वादशाङ्गी न कदाचिन्नासीत् ) इत्यादि, अतस्तेषामप्ययं दोषः प्रसजति इति अत्र उच्यते, नायं तेषां दोषः, कुत: ?-अर्पितानर्पितविशेषात्-अर्पितं-विशेषितं अनर्पितम्-अविशेषितं तद्रूपो विशेषस्ततः, तमादायेत्यर्थः । इदमत्र तात्पर्यं-अर्पितं-विशेषितं जिनप्रवचनं उत्पन्नमिति "वचनोत्पादोऽपितः, अनर्पितम्-अविशेषितं प्राक्तनजिनप्रणीतं तदतीतम्, अर्थतस्तु ध्रुवं, घटे
___ उत्पत्तिविपत्तिस्थिरतालक्षणं यत्सर्वमपि तदस्ति अङ्गलीवत् । एवं यन्नास्ति तदुत्पादादित्रयवन्न भवति 'खरविषाणवत् । अर्पितं विशेषितं जिनप्रवचनमुत्पन्नम् । अनर्पितमविशेषितं २प्राक्तनजिनप्रणीतं, अतीतं सप्तविकल्पवचनम् ॥२०४॥