________________
प्रशमरतिप्रकरणम्
१२९
उत्पादविगमनित्यत्वलक्षणं यत्तदस्ति सर्वमपि । सदसद्वा भवतीत्यन्यथापितानर्पितविशेषात् ॥२०४॥
मनुष्येभ्यस्तिर्यञ्चोऽनन्ताः । तेन कारणेन सङ्ख्यात्मना नास्ति मनुष्य इत्यादिनाल्पबहुत्वादिचिन्ता कार्या । आदिग्रहणान्नामाद्यनुयोगद्वारभेदेनाप्यस्तित्वनास्तित्वे भावयितव्ये । नैकश इत्यनेकेन भेदेन निर्देशस्वामित्वादिनापि आत्मा परिमृग्यः परीक्षणीयः । एते 'च जीवस्य स्वतत्त्वं सर्वमेव लक्षणैदृष्टम् । लक्ष्यते येन येनात्मा देशादिना तल्लक्षणं बहुप्रकारं, तैर्लक्षणैर्दृष्टमुपलब्धमनेकभेदमित्यर्थः ।।२०३।।
(२०४) टीका-१तथा परं लक्षणमाह-उत्पाद इत्यादि । उत्पत्तिरुत्पादः । विगमो विनाशः । नित्यत्वं ध्रौव्यम् । सर्वमेव चोत्पादव्ययध्रौव्यलक्षणं सद्भवत्यङ्गलिवत् । यथा मूर्तत्वेनाङ्गलिरवस्थिता ध्रुवा, ऋजुत्वेन विनष्टा, वक्रत्वेनोत्पन्नेति । एवं यदुत्पादादित्रयवत्तदस्ति सर्वं. यन्नास्ति तदत्पादादित्रयवदपि न भवति. खरविषाणादिवत । अतो
च, अतः संलुलिते एव विचार्येते, ताभ्यामादिष्टः स्यादस्ति स्यान्नास्ति-सम्मूञ्जेजगर्भजभेदेनासङ्ख्येयमनुष्यास्ते चाल्पे, तिर्यञ्चोऽनन्ताः एकेन्द्रियादिभेदेन, ते च बहवः, ततस्तिर्यक्सङ्ख्यया मनुष्या न सन्ति, मनुष्यसङ्ख्यया तिर्यञ्चो नेति । आदिग्रहणान्नामादिभिरप्यस्तित्वनास्तित्वे भावयितव्ये, कथं ?-नैकशो-बहुभिः प्रकारैः । एतस्य जीवस्य स्वतत्त्वं-सहजं स्वरूपं सर्वमेवसमस्तमपि, किं- ? दृष्टम्-उपलब्धम् । कैः कृत्वा ?-लक्षणैः-लक्ष्यते यैरात्मा तानि लक्षणानिचिह्नानि तानि तथा तैः, तानि चामूनि
चित्तं चेयण सन्ना विन्नाणं धारणा य बुद्धी य । ईहा मई वियक्का जीवस्स उ लक्खणा एए ॥१॥ ॥२०३।। (चित्तं चेतना सञ्ज्ञा विज्ञानं धारणा च बुद्धिश्च ।
ईहा मतिः वितर्का जीवस्य तु लक्षणान्येतानि ॥) (२०४) (वि०) उत्पाद इति । तथा अपरं लक्षणमाह-उत्पादः-प्रादुर्भावः तेन, स्वेन स्वरूपेण वस्तुनां घटपटादीनां धर्माधर्मादीनां च, पत्रादिनीलतावत्, विगमो-विनाशः प्रलयः तेषामेव,
(२०४) (अव०)-चित्तं चेयण सन्ना विन्नाणं धारणा य बुद्धि य ।
ईहा मई विअक्का जीवस्स उ लक्खणा एए ॥१॥ (चित्तं चेतना सञ्ज्ञा विज्ञानं धारणा च बुद्धिश्च । ईहा मतिः वितर्काः जीवस्य तु लक्षणान्येतानि ॥)