________________
१२८
प्रशमरतिप्रकरणम्
एवं संयोगाल्पबहुत्वाद्यैर्नेकशः स परिमृग्यः । जीवस्यैतत् सर्वं स्वतत्त्वमिह लक्षणैर्दृष्टम् ॥२०३॥
अजीवविषयमात्मेति ज्ञानदर्शनोपयोगस्वभावश्चेतनः प्रतीतः, कथं पुद्गलादिष्वात्मशब्दप्रवृत्तिरित्युच्यते-द्रव्यात्मेत्युपचार इत्यादि । उपचारो व्यवहारः शब्दनिबन्धनः । स च शब्दो निमित्तमाश्रित्य प्रवृतः, तच्च निमित्तमुभयत्र तुल्यम्, स यथैव चेतनो ३अतति तथाऽचेतनोऽपि अन्वयी पुद्गलांशोऽततीति भवत्यात्मशब्दवाच्यः । सर्वद्रव्यविषयश्चैष न्याय इति । नयविशेषेणेत्याह सामान्यग्राहिणा नयभेदेन सर्वत्रात्मशब्दप्रवृत्तिः । ४सोऽप्यात्मा द्रव्यक्षेत्रादिविवक्षयास्ति न सर्वथा । तत्र स्वरूपेणादिष्टो विवक्षित आत्मास्ति, पररूपेणादिष्टो नास्ति । यथैव स्वास्तिस्त्वादस्तीत्युच्यते, तथा परनास्तित्वान्नास्तीत्युच्यते । स्वावगाहक्षेत्रादिष्टस्तेनैव पर्यायेणास्ति, नान्येन । एवं कालात्मा वर्तमानतयादिष्टोऽस्तीति । अतीतानागततया नास्ति । औदयिकादीनामन्यतमेन भावेनादिष्टोऽस्ति, शेषभावेन नास्ति ॥२०२॥
(२०३) टीका-एवं संयोगेत्यादि । संयोगस्तावद्येन येन संयुक्तस्तेन तेन रूपेणात्मास्ति, येनासंयुक्तस्तेन नास्ति । नारको' नरकगतिसंयोगेनैव २विद्यते, न देवगतिसंयोगेनेति । अल्पत्वेन बहुत्वेन चादिष्टः स्यादस्ति स्यान्नास्ति । अल्पे३ मनुष्या, ४सङ्ख्ये यत्वेनैव तिर्यञ्चोऽनन्तसङ्ख्याः तेन पसङ्ख्यात्मना मनुष्यो नास्तीति सर्वद्रव्याणां जीवाजीवरूपत्वात्, किन्तु स्वस्वरूपवाचके आत्मध्वनौ नयविशेषेण-सामान्यग्राहिणा 'नयविशेषे भेदेन गृह्यमाणे कथञ्चिदयमपि घटत इति । यत आत्मादेशात्-स्वरूपाभिधानादात्मा भवति, भवत्यनात्मा च परादेशात्, परस्वरूपापेक्षया सदसद्रूपं वस्तु, जैनानां प्रसिद्धमिदमिति ।।२०२॥
(२०३) (वि०) साम्प्रतं निगमयन्नाह-एवमिति । एवमनेकप्रकारेण स-आत्मा परिमृग्यः-अन्वेषणीय इति सम्बन्धः । कैः कृत्वा ?-अल्पत्वं च बहुत्वं च ते, त्वप्रत्ययस्य प्रत्येकमभिसम्बन्धात्, ततः संयोगाश्चाल्पबहुत्वे च तानि, तानि आद्यानि येषां तानि तथा तैः । तत्र संयोगतस्तावत् येन येन संयुक्तस्तेन तेन रूपेणात्मा विद्यते, येन संयुक्तस्तेन विद्यते, यथा नारको नरकगतिसंयोगेनैव विद्यते, न देवादिसंयोगेनेति, अल्पत्वं बहुत्वव्यतिरेकेण न भवति, बहुत्वं अल्पत्वेन
(२०३) (अव०)-संयोगो रूपं अनेकेन भेदेन निर्देशः परीक्षणीयः, स्वतत्त्वं सहजं स्वरूपं, दृष्टमुपलब्धं, लक्षणैश्चितैरनेकभेदं समस्तमात्मनः ॥२०३॥