________________
प्रशमरतिप्रकरणम्
१२७
ज्ञानं सम्यग्दृष्टेर्दर्शनमथ भवति सर्वजीवानाम् । चारित्रं विरतानां तु सर्वसंसारिणां वीर्यम् ॥२०१॥ द्रव्यात्मेत्युपचार: सर्वद्रव्येषु नयविशेषेण । आत्मादेशादात्मा भवत्यनात्मा परादेशात् ॥२०२॥
सन्ति येषां ते कषायिणस्तेषां कषायिणामात्मा कषायैः सहैकत्वापत्तेः कषायात्मेत्युच्यते । ५योगो मनोवाक्कायाख्यस्तदेकत्वपरिणतस्त्वात्मा यः स खलु योगात्मा सयोगानामिति । उपयोगो ज्ञानदर्शनव्यापारो ज्ञेयविशेषस्तत्परिणत आत्मा उपयोगात्मेति सर्वजीवविषयः । "सर्वग्रहणं-मुक्तपरिग्रहार्थम् ॥२००।।
(२०१) टीका-ज्ञानं सम्यग्दृष्टेरित्यादि। सम्यग्दर्शनसम्पन्नस्यात्मनस्तत्त्वार्थश्रद्धानपरिणामभाजो यो ज्ञानपरिणामः स ज्ञानात्मा। 'दर्शनात्मा तु चक्षुर्दर्शनादिपरिणतस्यात्मनस्तदेकत्वापत्तेर्दर्शनात्मा। सर्वजीवविषयप्राणातिपातादिपापस्थानेभ्यो विरतस्य तदाकारपरिणतस्य चारित्रात्मा। वीर्यं शक्तिश्चेष्टा तेन वीर्येण सर्वे संसारिणो वीर्यात्मान उच्यन्ते ॥२०१॥
(२०२) टीका-एवमेतेऽष्टौ १आत्मविकल्पाः प्रतिपादितास्तत्र द्रव्यात्मानमाशङ्कते
स्थानवर्तिनां ज्ञेयः । एतेषु यथासम्भवं मनोवाक्कायभेदानां सम्भवात् । पुनरुपयोगःसाकारानाकाररूपः सर्वजीवानां-सिद्धानां संसारिणां चेति ॥२००॥
(२०१) (वि०) ज्ञानमिति । ज्ञानं सम्यग्दृष्टेः क्षायिकक्षायोपशमिकौपशमिकरूपत्रिविधस्य, न तु मिथ्यादृशः दर्शनं-सामान्योपयोगरूपं, चतुर्विधमथ भवति सर्वजीवानांसंसारिणां मुक्तानां च यथायोगं चारित्रं विरतानां तु, न त्वसंयतानां । सर्वसंसारिणां-चेतनानां "संसारी चेतनो मतः" ( ) इति वचनात्, भवस्थमुक्तानां चैतन्यवतामित्यर्थः, किं तद् ?-वीर्यमिति ॥२०१॥
(२०२) (वि०) द्रव्यात्मेति यदुक्तं तत्कि तत्त्वत उतान्यथेत्याह-द्रव्यात्मेति । द्रव्यात्मेति यत्पूर्वमुक्तं सर्वद्रव्येषु तदुपचारतो-व्यवहाराच्छब्दनिबन्धनात्, न तत्त्वतः, आत्मनो जीवरूपत्वात्
(२०१) (अव०)-'चक्षुर्दर्शनादि सामान्योपयोगरूपम् । सर्वजीवानां संसारिणां मुक्तानां च यथायोगम् ॥२०१॥
___ (२०२) (अव०)-'द्रव्यात्मेत्यादि । कथं पुद्गलादिष्वात्मा उच्यते ? आत्मनो जीवरूपत्वात्, उच्यते, शब्दनिबन्धनः । तदुभयत्र तुल्यं, यथैव चेतनोऽतति तथाचेतनोऽपि अन्वयी पुद्गलांशो भवतीत्यात्मा । सामान्यग्राहिणा नयेन । स्वरूपात् ॥२०२॥