________________
१२६
द्रव्यं कषाययोगावुपयोगो ज्ञानदर्शने चेति । चारित्रं वीर्यं चेत्यष्टविधा मार्गणा तस्य ॥१९९॥
प्रशमरतिप्रकरणम्
जीवाजीवानां द्रव्यात्मा सकषायिणां कषायात्मा । योगः सयोगिनां पुनरुपयोगः सर्वजीवानाम् ॥ २००॥ ६ताश्चेन्द्रियसम्पदः प्राप्नोतीत्यात्मा । अथवा इन्द्रियाणि च सम्पदश्च विभूतय इत्यर्थः । तथा ̈सुखदुःखे औदयिकादिभाववशादेवाप्नोति । अतति गच्छति तांस्तान् स्थानादिविशेषान् प्रकर्षेणाप्नोतीत्यात्मा । स चाष्टभेदः सङ्क्षेपतोऽनुगन्तव्यः ॥१९८॥
( १९९) टीका-तानष्टौ विकल्पानभिधातुकाम आह- द्रव्यं कषायेत्यादि । द्रव्यात्मा कषायात्मा योगात्मा उपयोगात्मा ज्ञानात्मा दर्शनात्मा चारित्रात्मा वीर्यात्मा चेति अष्टविधाऽष्टप्रकारा मार्गणा गवेषणा परीक्षा तस्यात्मनः कार्येति ॥ १९९॥
(२०० ) टीका - सम्प्रत्येषां द्रव्याद्यात्मनां २ स्वरूपाचिख्यासयाऽऽह - जीवाजीवानामित्यादि । जीव इत्यनादिपरिणामिको भावः । जीवश्च द्रव्यमन्वयी सर्वत्र परिणामे पर्यायेऽनुस्यूतं द्रवति तांस्तान् पर्यायानाप्नोति नारकादीन् । सर्वत्राविच्छेदेन वर्तते । एकं द्रव्यं द्रव्यात्मा सर्वत्रान्वेति यस्मादिति । एवमजीवानामपि योऽन्वय्यंशः पुद्गलानां स द्रव्यात्मा । धर्मादीनां तु परप्रत्यया उत्पादादिपरिणामास्तत्राप्यन्वयी द्रव्यात्मेति । कषायाः क्रोधादयस्ते सम्भवन्ति । एतानि स्थानादीनि कः कर्ता लभते अत आह- आत्मा - जीवः, सोऽष्टविकल्पः समासेनेति ॥१९८॥
(१९९) (वि०) तानेवाह - द्रव्यमिति । द्रव्यं - द्रव्यात्मा कषाययोगौ-कषायात्मा योगात्मा, एवमुपयोगादिष्वात्मा योज्यः, इत्यष्टविधा मार्गणा - अन्वेषणा तस्य जीवस्येति ॥१९९॥ (२०० ) ( वि० ) एतानेव आर्याद्वयेनाह - जीवाजीवानामिति । जीवाजीवानां सचेतनाचेतनानां षण्णां द्रव्याणां यद् द्रव्यं-स्थित्यंशरूपं तदात्मा भण्यते, न हि तानि ताद्रूप्यं कदाचन त्यजन्तीति कृत्वा । सकषायिणां कषायोपरक्तचेतनायां कषायात्मा - कषायप्रधान आत्मा - जीवो, मिथ्यादृष्ट्यादिसूक्ष्मसम्परायान्तानां स ज्ञेयः । योगो - योगप्रधान आत्मा सयोगिनां त्रयोदशगुण
( १९९ ) ( अव० )–'द्रव्यं० आत्मशब्दः प्रत्येकं योज्यः द्रव्यादीनाम् । गवेषणा आत्मनः
॥१९९॥
(२००) (अव०)—–— 'जीवाजीवानां = सचेतनाचेतनानां द्रव्याणाम् । द्रव्याणां यद् द्रव्यं स्थित्यंशरूपं तदात्मा भण्यते । न हि तानि कदाचन तत् त्यजन्तीति कृत्वा । उपयोगो ज्ञानदर्शन व्यापारः । सर्वग्रहणं मुक्त परिग्रहार्थम् ॥ २००॥