________________
27
(३३) उक्तमुक्तौ आत्मतत्त्वज्ञानहेतुतायामुपनिषदः प्रामाण्यम् ।
देहादिभिन्नात्मसाक्षात्कारस्य श्रवणादिमूलस्य मोक्षहेतुत्वम् । (३४) श्रवणादिसत्त्वेऽपि मुक्त्यभावे हेतुः ।
श्रवणानन्तरं मननस्यावश्यकत्वेन वैशेषिकाद्यध्ययनस्य मुक्त्युपयोगिता । ( ३५) ईश्वरात्मसाक्षात्कार एव मुक्तिहेतुरिति वेदान्त्येकदेशिमतम् ।
तत्र श्रुतिप्रमाणम् । (३६) ईश्वरसाक्षात्कारस्य विपरीतज्ञाननिवर्तकत्वेन मोक्षहेतुत्वानुपपत्तिशङ्का ।
तत्खण्डनम् । (३७) ईश्वरसाक्षात्कारस्य मुक्तिहेतुतायां तमेवेत्यादिश्रुतिबाधः ।
तत्समाधानम् । विदित्वैवेत्यत्रैवकाव्यत्ययेन तुल्यसमाधानम् ।
एवकाराव्यत्यासेऽपि वस्तुतस्त्वित्यादिसमाधानम् । (३८) जीवात्मसाक्षात्कारवादिशङ्का ।
जीवात्मसाक्षात्कारमते एवकाराव्यत्यासेन गौरवमित्याशङ्कासमाधाने । न्यायमते ब्रह्माभिन्नजीवात्मविषयज्ञानस्य मुक्तिहेतुत्वम् ।
जीवात्मसाक्षात्कारमतखण्डनम् । (३९) आत्मपदस्य जीवपरत्ववादिनां दीधितिकाराणां मतम् ।
तत्र श्रुतिप्रमाणम् ।
ईश्वरसाक्षात्कारवादिनः शङ्का । तन्निरासः । (४०) दीधितिकारमतखण्डनम् । (४१) ज्ञानवत्कर्मणोऽपि मुक्तिकारणत्वशङ्का ।
मुक्तौ जातिविशेषाभावात् अननुगतज्ञानादिकार्यकारणभावानुपपत्तिशङ्का । साङ्कर्यभिया जातिकल्पनानुपपत्तिः । संवलितज्ञानकर्मणां हेतुत्वानुपपत्तिः ।
समुच्चितानामपि तदनुपपत्तिः । (४२) आत्मतत्त्वज्ञानमेव मुक्तिहेतुः काशीमरणादि च प्रयोजकमित्यभिप्रायेण समाधानम् ।
मरणजन्यतावच्छेदकमानसत्वव्याप्यजातिविशेषाङ्गीकारेण व्यभिचारशङ्कानिरासः । (४३) काशीमरणस्थले शरीरान्तरपरिग्रहेण तारकोपदेशसाफल्यम् ।
तत्र श्रुतिप्रमाणम् ।
तारकोपदेशस्य तच्छरीरेऽपि ज्ञानजनकत्वोपपत्तिः । (४४) तारकोपदेशस्यान्यशरीरे आत्मज्ञानोपयोगितया मुक्तिहेतुत्वमतम् । (४५) वैकल्पिकहेतुतानुपपत्तिशङ्कासमाधाने । (४६) व्रीह्यादियागविकल्पे उभयस्याशास्त्रार्थत्वेऽपि प्रकृते शास्त्रार्थत्वम् । (४७ साहित्यासम्भवात्कथमुभयकरणकयागस्य फलासाधनतेत्याशङ्कासमाधाने । २. मुक्तिवादः (तत्त्वचिन्तामणिगतः) - गङ्गेशोपाध्यायः
- अनुवादः डॉ.श्रीबलिरामशुक्ल ९१-१२२
55 Wwuru Purrrrr999999
.००
N 1 our mms
से