SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ 26 (१५) दुःखाभावनिर्वाहकत्वेन दुरितनाशे गौणप्रयोजनत्ववर्णनम् । मिथ्याज्ञानजवासनानिवृत्तेर्दुखाभावनिर्वाहकतया मुक्तिरूपताशङ्कासमाधाने । (१६) एकदण्डिवेदान्तमतसिद्धमुक्तिः । तन्मतेऽविद्यानिवृत्तेगौणप्रयोजनत्वव्यवस्था । ब्रह्मसंवेदनस्याविद्यानिवर्तकत्वम् । (१७) स्फूर्तिपदार्थविवरणम् । जडात्मप्रपञ्चस्य स्वतःस्फूर्त्यभावे शारीरकाचार्यप्रमाणम् । ब्रह्मस्फूर्तेः स्वतस्त्वव्यवस्था । (१८) संसारदशायां अविद्यानिवृत्तिप्रसङ्गपरिहारः । ९) ब्रह्मपरिणामवादित्रिदण्डिमते लिङ्गशरीरनाश एव मोक्षः । लिङ्गशरीरस्वरूपम् । मतद्वये मायानिवृत्तेरविशेषः । (२०) अदृष्टस्याविद्यापदवाच्यत्वे युक्तिः । (२१) बुद्धिनिवृत्त्या सुखदुःखनिवृत्तिरिति मतनिरासः । (२२) तत्त्वज्ञानस्यादृष्टनाशकत्वानुपपत्तिशङ्का नैयायिकमते । वासनानाशे तत्त्वज्ञानस्य पृथक्कारणताकल्पनेन गौरवम् । (२३) बुद्धितत्त्वनाशानुपपत्त्या तत्समाधानम् । (२४) बुद्धिसम्बन्धात्पुरुषबन्धस्तल्लयान्मोक्ष इति साङ्ख्यमतम् । तन्मतखण्डनम् । (२५) नित्यसुखानुभवोऽपवर्ग इति भट्टमतम् । तत्र श्रुतिप्रमाणम् । (२६) आनन्दविशिष्टस्यात्मनो नित्यत्वेन तद्विशेषणमानन्दो नित्य इति मीमांसकमतम् । (२७) विशेषणान्वयापरित्यागे तन्मते ईश्वरसिद्धापत्तिरित्याशयेन तन्निराकरणम् । (२८) मुक्तस्य सुखसम्बन्धानुपपत्तिशङ्का । प्रियाप्रिये न स्पृशत इत्यत्र तदुभयानुयोगिकमुक्तात्मकर्मकस्पर्शकर्तृत्वाभावप्रत्यायनम् । स्पृशधातोः सत्तार्थकतया सुखदुःखोभयाभावास्तित्वशङ्कानिरसने । (२९) श्रुतिविरोधभयेन सुखसत्त्वेऽपि आत्मनि व्यासज्यवृत्तिधर्मावच्छिन्नसुखा भावसिद्धिः। तादृशाभावानङ्गीकारमते न स्पृशत इत्यस्यार्थः । सुखपदस्य जन्यसुखत्वाभिप्रायेण कल्पान्तरम् । (३०) वेदान्तिमते देहाभावान्मुक्तस्य सुखसाक्षात्कारानुपपत्तिशङ्का । शरीराभावेऽपि मुक्तस्य तदुपपत्तिसिद्धान्तः । (३१) भट्टमतखण्डनम् । (३२) तन्मतेऽपि दुःखनिवृत्तेरेव मुक्तितायामानन्दमित्यादिश्रुतिसमर्थनम् ।
SR No.009262
Book TitleMuktivad
Original Sutra AuthorN/A
AuthorGadadhar Bhattacharya, Gangesh Upadhyay, Yashovijay
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages285
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy