________________
संसारपरिधावेव सीमितं ततः तद्बहिर्भूता मुक्तिस्तदगोचरैव स्याद् । अत एवोपनिषत्सु मोक्षस्य विशुद्धसत्त्वग्राह्यत्वमेव प्रतिपादितम् ।१ बौद्धदर्शनेऽपि लौकिकदृष्टिपुरुषस्य मोक्षज्ञानेऽसामर्थ्य प्रतिपादयित्वा तस्य विशुद्धमनोविज्ञानविषयत्वमेव कथितम् । जैनमतेऽपि तस्याऽनिर्वचनीयत्वं स्पष्टतः स्थिरीकृतमस्ति । तदुक्तमाचाराने मोक्षनिरूपणप्रसङ्गे- “सव्वे सरा नियटुंति" (सूत्र १७०) । एतट्टीका-"न तत्र शब्दानां प्रवृत्तिः, न च सा काचिदवस्थाऽस्ति या शब्दैरभिधीयेत । तथाहि-शब्दाः प्रवर्त्तमाना रूपरसगन्धस्पर्शानामन्यतमे विशेषे सङ्केतकालगृहीते तत्तुल्ये वा प्रवर्तेरन्, न चैतत्तत्र शब्दादीनां प्रवृत्तिनिमित्तमस्ति, अतः शब्दानभिधेया मोक्षावस्थेति" इति । तत्रैव मोक्षस्य तर्कातीतत्वं विकल्पातीतत्वं चाऽपि प्रतिपादितम् । अत एव सिद्धस्यैकत्रिंशद्गुणाधारकत्ववर्णने सर्वेऽपि गुणा निषेधात्मका एव प्रदर्शिताः । संस्थानपञ्चक-वर्णपञ्चक-रसपञ्चक-स्पर्शाष्टक-गन्धद्वयवेदत्रिक-देह-भव-सङ्गात्मकैकत्रिंशद्वस्तूनामभाव एव सिद्धस्य गुणाः । इदृश्येव 'नेति नेत्या'त्मिका निरूपणरीतिरुपनिषत्स्वपि ।
संसारातीततत्त्वस्याऽस्याऽवर्णनीयत्वेऽपि ध्येयरूपेण सर्वस्वीकृतत्वात् तद् वर्णयितुं सर्वैरपि दार्शनिकैः प्रयत्नो विहित एव । तत्र यद्यपि तत्त्वव्यवस्था-परिभाषाज्ञानमात्रादिभेदतो वर्णनभेदा प्रजाता एव, तथापि तत्त्वत एकमेव निर्वाणमिति३ सर्वेऽपि मतभेदा जैनमतेन सङ्गमनार्हा एव ।
तथाहि-नवानामात्मगुणानामात्यन्तिकोच्छेद एव मोक्ष इति नैयायिका यदूचुस्तद् वैभाविक(=शरीरेन्द्रियादि-विभावदशाजन्य)गुणानपेक्ष्यैव । मुक्तौ स्वाभाविकान् (=आत्ममात्रापेक्षान्) एव ज्ञानसुखादिगुणान् यदा जैनाः प्रतिपादयन्ति, तदा मोक्षे वैभाविकगुणोच्छेदः स्यादेवेत्यत्र तेषामपि सम्मतिरिति कथं नैयायिकजैनमतयोविभिन्नता ? किञ्च, ईश्वरात्मनि नित्यज्ञानसुखादिसत्त्वं नैयायिकैरप्यङ्गीकृतं खलु ? एवं परमार्थतश्चिन्तयामश्चेद् मुक्तात्मनि नित्यज्ञानसुखादिसत्त्वं वदतां जैनानां पङ्क्तावेव तेषामुपवेशनम् ।
चित्तसन्ततिनिरोधो मोक्ष इति बौद्धमतमपि परमार्थतः सवासनचित्तवृत्तिनाशे तन्नाम तृष्णाक्षये एव पर्यवस्यति । बौद्धशास्त्रेषु बहुत्र निर्वाणस्य ध्रुवत्वेन शुभत्वेन सुखमयत्वेन च
१.* कठोपनिषत्-१.३.१२, २.६.१२, मुण्डकोपनिषत्-३.१.८ २.* मिलिन्दपण्हो-४.८.६६, ६७, ४.७.१५ ३. योगदृष्टि०-१२९, १३०, १३१ ४.* न्यायमञ्जरी-पृष्ठ २००, २०१