________________
24
वर्णितत्वात्, सर्वथाऽत्माभावत्वे तस्याऽसम्भवात् । अथ च सवासनचित्तसन्ततिनिरोध इति बौद्धमतस्य वासनापरनामकरागद्वेषपरिणतिक्षय एव मोक्ष इति जैनमतस्य च को भेदः परिभाषाभेदाहते ?
प्रकृतिवियोगे शुद्धचैतन्यावस्थानमेव मुक्तिरिति साङ्ख्यमतं कर्मप्रकृतिवियोगे आत्मनः शुद्धस्वरूपाविर्भाव एव मुक्तिरिति जैनमतस्य समानाभिप्रायकमेव । प्रकृतिगुणात्मकानन्दसत्त्वं तत्र साङ्ख्यैर्न स्वीकृतमित्यपि न जैनमतं व्यभिचरति-पुण्यप्रकृतिविपाकरूपसुखस्य मुक्तौ जैनैरप्यनङ्गीकारात् । शुद्धचैतन्यस्य केवलं निर्मलचिच्छक्तिमत्त्वं न पुनरानन्दवत्त्वमिति साङ्ख्यमतमपि जैनैः कथञ्चिदभ्युपगमार्हमेव-व्याबाधारहितस्य निर्मलचिच्छक्तिमत्त्वे एवाऽपेक्षाविशेषेणाऽऽनन्दस्य समावेशनीयत्वमिति जैनशास्त्रेषु प्रतिपादितत्वात् ।
___ एवं वेदान्तादिदर्शनस्थमुक्तिनिरूपणमपि जैननिरूपणेन सङ्गमयितुं शक्यमेव । जैनविचारणायाः सर्वाङ्गीणत्वमेवाऽत्र कारणीभूतमिति निश्चप्रचम् ।
वस्तुतो जैनदर्शनस्थमुक्तिविचारोऽतिविस्तृतो मादृशेनाऽनिपुणमतिनाऽगम्यश्च । तथापि तत्त्वार्थाधिगमसूत्रस्य दशमोऽध्यायः (सभाष्यः-श्रीउमास्वातिवाचकः), पञ्चसूत्रस्थपव्वज्जाफलसुत्तं (-श्रीहरिभद्रसूरिः), न्यायालोकस्थ-मुक्तिवादः (-उपा. यशोविजयः), विशेषावश्यकस्थ-षष्ठैकादशगणधरवक्तव्यते (-श्रीजिनभद्रगणिः)-इत्येतान् ग्रन्थानाधारीकृत्य लिखितुं प्रयत्नो विहितः । टिप्पण्यां यस्य स्थाननिर्देशो न विहितः, स सर्वोऽपि विषय प्राय एतेभ्य एव मूलेभ्यः सगृहीतः । इतोऽप्यत्र बहु बहु वक्तव्यमवशिष्यते, तत्पुनरेतेभ्यो ग्रन्थेभ्यस्तत्सदृशान्येभ्यश्चाऽवसेयमिति शम् ।
१.* विसुद्धिमग्गो- १६.६४, ६७, ७१ २.* न्यायावतार:-२८
एताः टिप्पण्यः श्रीदलसुखभाइ-मालवणियामहोदयेनाऽनूदितस्य श्रीविशेषावश्यकभाष्यस्थगणधरवादप्रकरणस्य पुस्तकतः सगृहीताः ।